Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1012

1875 Mantra
Devata- पवमानः सोमः Rishi- कृतयशा आङ्गिरसः Chhand- काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
आ꣡ व꣢च्यस्व सुदक्ष च꣣꣬म्वोः꣢꣯ सु꣣तो꣢ वि꣣शां꣢꣫ वह्नि꣣र्न꣢ वि꣣श्प꣡तिः꣢ । वृ꣣ष्टिं꣢ दि꣣वः꣡ प꣢वस्व री꣣ति꣢म꣣पो꣢꣫ जिन्व꣣न्ग꣡वि꣢ष्टये꣣ धि꣡यः꣢ ॥१०१२॥

आ꣢ । व꣣च्यस्व । सुदक्ष । सु । दक्ष । चम्वोः । सु꣣तः꣢ । वि꣣शा꣢म् । व꣡ह्निः꣢꣯ । न । वि꣣श्प꣡तिः꣢ । वृ꣣ष्टि꣢म् । दि꣣वः꣢ । प꣣वस्व । रीति꣢म् । अ꣣पः꣢ । जि꣡न्व꣢꣯न् । ग꣡वि꣢꣯ष्टये । गो । इ꣣ष्टये । धि꣡यः꣢꣯ ॥१०१२॥

Mantra without Swara
आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः । वृष्टिं दिवः पवस्व रीतिमपो जिन्वन्गविष्टये धियः ॥

आ । वच्यस्व । सुदक्ष । सु । दक्ष । चम्वोः । सुतः । विशाम् । वह्निः । न । विश्पतिः । वृष्टिम् । दिवः । पवस्व । रीतिम् । अपः । जिन्वन् । गविष्टये । गो । इष्टये । धियः ॥१०१२॥

Samveda - Mantra Number : 1012
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सुदक्ष) शुभयोग बलयुक्त आचार्यप्रवर ! (चम्वोः) द्यावापृथिव्योरिव पराऽपराविद्ययोः (सुतः) निष्णातः त्वम् (विशाम्) प्रजानाम् (वह्निः) भारवाहकः (विश्पतिः न) प्रजापालकः नृपतिरिव (आ वच्यस्व) प्रशंसां लभस्व। [वच परिभाषणे, कर्मणि ‘उच्यस्व’ इति प्राप्ते सम्प्रसारणाभावश्छान्दसः।] (गविष्टये) गोकामाय दिव्यप्रकाशेच्छुकाय शिष्याय मह्यम् (धियः) प्रज्ञानानि (जिन्वन्) प्रेरयन् त्वम् (दिवः) मूर्धलोकात् (वृष्टिम्) धर्ममेघसमाधौ जायमानां ज्योतिर्वृष्टिम् (अपः) आनन्दवारिणश्च (रीतिम्) धाराम्। [री गतिरेषणयोः, क्र्यादिः।] (पवस्व) प्रवाहय ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
योगविद्यापारंगत आचार्यो भौतिकविज्ञानेषु पण्डित्येन साकं योगविद्यापाण्डित्यमपि शिष्याणां कुर्वन् तेषां पुरतो दिव्यज्योतिषो ब्रह्मानन्दस्य च धारामिव प्रवाहयति ॥२॥
Subject
अथ पुनरप्याचार्य उच्यते।
Footnote
१. ऋ० ९।१०८।१०, ‘री॒तिम॒यां जिन्वा॒’ इति पाठः।