Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1011

1875 Mantra
Devata- पवमानः सोमः Rishi- ऊर्ध्वसद्मा आङ्गिरसः Chhand- काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) Swara- ऋषभः
Mantra with Swara
अ꣣भि꣢ द्यु꣣म्नं꣡ बृ꣣ह꣢꣫द्यश꣣ इ꣡ष꣢स्पते दीदि꣣हि꣡ दे꣢व देव꣣यु꣢म् । वि꣡ कोशं꣢꣯ मध्य꣣मं꣡ यु꣢व ॥१०११॥

अ꣣भि꣢ । द्यु꣣म्न꣢म् । बृ꣣ह꣢त् । य꣡शः꣢꣯ । इ꣡षः꣢꣯ । प꣣ते । दिदीहि꣢ । दे꣣व । देवयु꣢म् । वि । को꣡श꣢꣯म् । म꣣ध्यम꣡म् । यु꣣व ॥१०११॥

Mantra without Swara
अभि द्युम्नं बृहद्यश इषस्पते दीदिहि देव देवयुम् । वि कोशं मध्यमं युव ॥

अभि । द्युम्नम् । बृहत् । यशः । इषः । पते । दिदीहि । देव । देवयुम् । वि । कोशम् । मध्यमम् । युव ॥१०११॥

Samveda - Mantra Number : 1011
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इषः पते) विज्ञानस्य स्वामिन् योगिप्रवर आचार्य ! त्वम् (द्युम्नम्) अध्यात्मं तेजः, (बृहद् यशः) विशालां कीर्तिं च (अभि) शिष्यानस्मान् अभिप्रापय। हे (देव) योगविद्यया प्रकाशित विद्वन् ! त्वम् (देवयुम्) देवं परमात्मानं कामयमानं माम्, (दिदीहि) परमात्मदर्शनेन प्रकाशय। (मध्यमं कोशम्) पञ्चकोशेषु मध्यस्थं मदीयं मनोमयं कोशम् (वि युव) समुद्घाटय, येनाहं विज्ञानमयमानन्दमयं च कोशमारोढुं प्रभवेयम् ॥१॥
Essence
योगविद्यानिष्णातस्याचार्यस्यानुशासने तिष्ठन् शिष्यः सर्वामध्यात्मविद्यामुपलभ्य परमात्मसाक्षात्कारे समर्थो जायते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५७९ क्रमाङ्के परमात्मानं सम्बोधिता। अत्र योगिराड् आचार्यः सम्बोध्यते।
Footnote
१. ऋ० ९।१०८।९, ‘देव॒युः’ इति पाठः। साम० ५७९।