Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1010

1875 Mantra
Devata- पवमानः सोमः Rishi- जमदग्निर्भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣢दी꣣म꣢श्वं꣣ न꣡ हेता꣢꣯र꣣म꣡शू꣢शुभन्न꣣मृ꣡ता꣢य । म꣢धो꣣ र꣡स꣢ꣳ सध꣣मा꣡दे꣢ ॥१०१०॥

आत् । ई꣣म् । अ꣡श्व꣢꣯म् । न । हे꣡ता꣢꣯रम् । अ꣡शू꣢꣯शुभन् । अ꣣मृ꣡ता꣢य । अ꣣ । मृ꣡ता꣢꣯य । म꣡धोः꣢꣯ । र꣡स꣢꣯म् । स꣣धमा꣡दे꣢ । स꣣ध । मा꣡दे꣢꣯ ॥१०१०॥

Mantra without Swara
आदीमश्वं न हेतारमशूशुभन्नमृताय । मधो रसꣳ सधमादे ॥

आत् । ईम् । अश्वम् । न । हेतारम् । अशूशुभन् । अमृताय । अ । मृताय । मधोः । रसम् । सधमादे । सध । मादे ॥१०१०॥

Samveda - Mantra Number : 1010
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सोमौषधिरसविषये। (आत्) तदनन्तरम्, सोमरसे गोदुग्धमिश्रणानन्तरमित्यर्थः (हेतारम्) बलस्य वर्धयितारम्। [हि गतौ वृद्धौ च।] (ईम् मधोः रसम्) एतम् मधुरस्य सोमस्य रसम्, योद्धारः (अमृताय) युद्धे विजयलाभाय (अशूशुभन्) पातुं पात्रेषु शोभयन्ति। कथमिव ? (हेतारम् अश्वं न) यथा आशुगामिनं तुरङ्गमम् अश्वपालाः अश्वोचितैरलङ्कारैः शोभयन्ति तद्वत् ॥ द्वितीयः—ज्ञानरसविषये। (आत्) तदनन्तरम्, गुरोः सकाशाज्ज्ञानोपलब्धेरनन्तरमित्यर्थः, (हेतारम्) पुरुषार्थवर्धकम् (ईम् मधोः रसम्) एतं मधुरस्य ज्ञानस्य रसम्, शिष्याः (अमृताय) मोक्षलाभाय (अशूशुभन्) योगाभ्यासैः शोभयन्ति। कथमिव ? (हेतारम्२ अश्वं न) यथा गन्तारं तुरङ्गमम् अश्वपालाः अश्वोचितैरलङ्कारैः शोभयन्ति तद्वत् ॥३॥ अत्र श्लेषः श्लिष्टोपमा चालङ्कारः ॥३॥
Essence
यथा पीतः सोमौषधिरसो बलवृद्धिकरः सन् युद्धे विजयं प्रापयति तथाऽऽचार्याद् गृहीतं ज्ञानं योगाभ्यासेन सहचरितं मोक्षप्रापकं जायते ॥३॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. ऋ० ९।६२।६, ‘हेता॒रो’, ‘मध्वो॒’ इति पाठः। २. हेतारं शीघ्रगामिनम्—इति वि०।