Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 101

1875 Mantra
Devata- पवमानः सोमः Rishi- त्रित आप्त्यः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
ज꣣ज्ञानः꣢ स꣣प्त꣢ मा꣣तृ꣡भि꣢र्मे꣣धा꣡माशा꣢꣯सत श्रि꣣ये꣢ । अ꣣यं꣢ ध्रु꣣वो꣡ र꣢यी꣣णां꣡ चि꣢केत꣣दा꣢ ॥१०१॥

ज꣣ज्ञानः꣢ । स꣣प्त꣢ । मा꣣तृ꣡भिः꣢ । मे꣣धा꣢म् । आ । अ꣣शासत । श्रिये꣢ । अ꣣य꣢म् । ध्रु꣣वः꣢ । र꣣यीणा꣢म् । चि꣣केतत् । आ꣢ ॥१०१॥

Mantra without Swara
जज्ञानः सप्त मातृभिर्मेधामाशासत श्रिये । अयं ध्रुवो रयीणां चिकेतदा ॥

जज्ञानः । सप्त । मातृभिः । मेधाम् । आ । अशासत । श्रिये । अयम् । ध्रुवः । रयीणाम् । चिकेतत् । आ ॥१०१॥

Samveda - Mantra Number : 101
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
पवमानः सोमः चित्तशोधकः परमात्मा (सप्त२) सप्तभिः। अत्र सुपां सुलुक्० अ० ७।२।३९ इति भिसो लुक्। (मातृभिः) मातृभूताभिः गायत्र्यादिच्छन्दोमयीभिः वेदवाग्भिः (जज्ञानः) उपासकस्य हृदये प्रादुर्भूतः सन्। जनी प्रादुर्भावे लिटः कानच्। (श्रिये) सम्पदे सम्पत्प्राप्त्यर्थमिति यावत्। (मेधाम्) धारणावतीं बुद्धिम् (आ अशासत) प्रयच्छति। आङः शासु इच्छायाम्, भ्वादिः, बहुलं छन्दसि।’ अ० २।४।७३ इति शपो लुक् न। येन (ध्रुवः) स्थितप्रज्ञः सन् (अयम्) एष उपासकः (रयीणाम्) श्रेष्ठा अध्यात्मसम्पदः। अत्र द्वितीयार्थे षष्ठी। (आ चिकेतत्) प्राप्नोति। कित ज्ञाने, भ्वादिः। लेटि बहुलं छन्दसि। अ० २।४।७६ इति शपः श्लुः ॥५॥
Essence
गायत्र्यादिसप्तच्छन्दोबद्धानां वेदवाचां गानेन परमात्मसान्निध्यं प्राप्नुवतो योगिन ऋतम्भराप्रज्ञोदयात् सर्वा अपि अध्यात्मसम्पदो हस्तगता भवन्ति ॥५॥
Subject
अथ पवमानो देवता। तस्य कल्याणकारित्वं वर्ण्यते।
Footnote
१. ऋ० ९।१०२।४, जज्ञानं सप्त मातरो वेधामशासत श्रिये। अयं ध्रुवो रयीणां चिकेत यत् ॥—इति पाठः। २. सप्तसंख्याकाः मातरः निर्मातारः आदित्याद्याः, अथवा सप्त मातरः सप्त छन्दांसि, अथवा सप्त होताः, अथवा सप्त सोमसंस्थाः—इति वि०। सप्त सप्तभिः सर्पणशीलाभिः मातृभिः अद्भिः वसतीवरीभिः संसृष्टा अभिषूयन्ते सोमाः—इति भ०। सप्त सप्तसंख्याकाभिः मातृभिः हविर्मानसमर्थाभिर्जिह्वाभिः, स्वात्मनि हविः प्रक्षेप्त्रीभिर्वा जिह्वाभिः सह जज्ञानः प्रादुर्भूतः सोऽग्निः—इति सा०।