Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1009

1875 Mantra
Devata- पवमानः सोमः Rishi- जमदग्निर्भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
शु꣣भ्र꣡मन्धो꣢꣯ दे꣣व꣡वा꣢तम꣣प्सु꣢ धौ꣣तं꣡ नृभिः꣢꣯ सु꣣त꣢म् । स्व꣡द꣢न्ति꣣ गा꣢वः꣣ प꣡यो꣢भिः ॥१००९॥

शु꣣भ्र꣢म् । अ꣡न्धः꣢꣯ । दे꣣व꣡वा꣢तम् । दे꣣व꣢ । वा꣣तम् । अप्सु꣢ । धौ꣣त꣢म् । नृ꣡भिः꣢꣯ । सु꣣त꣢म् । स्व꣡द꣢꣯न्ति । गा꣡वः꣢꣯ । प꣡यो꣢꣯भिः ॥१००९॥

Mantra without Swara
शुभ्रमन्धो देववातमप्सु धौतं नृभिः सुतम् । स्वदन्ति गावः पयोभिः ॥

शुभ्रम् । अन्धः । देववातम् । देव । वातम् । अप्सु । धौतम् । नृभिः । सुतम् । स्वदन्ति । गावः । पयोभिः ॥१००९॥

Samveda - Mantra Number : 1009
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सोमौषधिरसविषये। (देववातम्) देवेन सूर्येण मेघेन वा वातं वृद्धिं गमितम्, (अप्सु) उदकेषु (धौतम्) प्रक्षालितम्। [धावु गतिशुद्ध्योः।] (नृभिः) ऋत्विग्जनैः (सुतम्) अभिषुतम् (शुभ्रम् अन्धः) स्वच्छं सोमरसम् (गावः) धेनवः (पयोभिः) स्वकीयैः दुग्धैः (स्वदन्ति) स्वादयन्ति ॥ द्वितीयः—ज्ञानरसविषये। (देववातम्) देवेन (विदुषा) आचार्येण प्रेरितम्, (अप्सु) कर्मसु, आचरणेषु (धौतम्) प्रापितम्। [धावुरत्र गत्यर्थः।] (नृभिः) इतरैः नेतृभिः मार्गदर्शकैः गुरुजनैः (सुतम्) उत्पादितम् (शुभ्रम् अन्धः) स्वच्छं ज्ञानरसम् (गावः) वेदवाचः (पयोभिः) ओङ्कारलक्षणैः दुग्धैः (स्वदन्ति) मधुरं कुर्वन्ति ॥२॥ अत्र श्लेषालङ्कारः ॥२॥
Essence
भौतिकं ज्ञानमध्यात्मज्ञानेन सहचरितं महाकल्याणकरं जायते ॥२॥
Subject
अथ पुनरपि स एव विषय उच्यते।
Footnote
१. ऋ० ९।६२।५, ‘म॒प्सु धू॒तो नृभिः॑ सुतः’ इति द्वितीयः पादः।