Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1008

1875 Mantra
Devata- पवमानः सोमः Rishi- जमदग्निर्भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡सा꣢व्य꣣ꣳशु꣡र्मदा꣢꣯या꣣प्सु꣡ दक्षो꣢꣯ गिरि꣣ष्ठाः꣢ । श्ये꣣नो꣢꣫ न योनि꣣मा꣡स꣢दत् ॥१००८॥

अ꣡सा꣢꣯वि । अ꣣ꣳशुः꣢ । म꣡दा꣢꣯य । अ꣡प्सु꣢ । द꣡क्षः꣢꣯ । गि꣣रि꣢ष्ठाः । गि꣣रि । स्थाः꣢ । श्ये꣣नः꣢ । न । यो꣡नि꣢꣯म् । आ । अ꣣सदत् ॥१००८॥

Mantra without Swara
असाव्यꣳशुर्मदायाप्सु दक्षो गिरिष्ठाः । श्येनो न योनिमासदत् ॥

असावि । अꣳशुः । मदाय । अप्सु । दक्षः । गिरिष्ठाः । गिरि । स्थाः । श्येनः । न । योनिम् । आ । असदत् ॥१००८॥

Samveda - Mantra Number : 1008
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सोमौषधिरसविषये। (गिरिष्ठाः) पर्वतेषु उत्पन्नः, (दक्षः) बलप्रदः (अंशुः) सोमौषधिरसः (मदाय) पाने सति उत्साहवर्धनाय (अप्सु) उदकेषु (असावि) अभिषुतोऽस्ति। (श्येनः न योनिम्) श्येनपक्षी यथा स्वनीडम् आगत्य स्थितो भवति, तथा एष सोमौषधिरसः (योनिम्) द्रोणकलशम् (आसदत्) आगत्य स्थितोऽस्ति ॥ द्वितीयः—ज्ञानरसविषये। (गिरिष्ठाः) वेदवाचि स्थितः, (दक्षः) आत्मबलप्रदः (अंशुः) ज्ञानरसः (मदाय) आनन्दप्रापणाय (अप्सु) विद्यार्थिनां कर्मसु (असावि) आचार्येण अभिषूयते। (श्येनः न योनिम्) श्येनपक्षी यथा स्वनीडम् आगत्य स्थितो भवति तथा एष ज्ञानरसः (योनिम्) जीवात्मरूपं सदनम् (आसदत्) आगत्य स्थितो भवति ॥१॥ अत्रोपमालङ्कारः श्लेषश्च ॥१॥
Essence
कर्मरहितं केवलं ज्ञानं नीरसं निष्फलं च भवति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४७३ क्रमाङ्के आनन्दरसविषये व्याख्याता। अत्र सोमौषधिरसविषयो ज्ञानरसविषयश्च वर्ण्यते।
Footnote
१. ऋ० ९।६२।४, साम० ४७३।