Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1007

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
ता꣡ अ꣢स्य꣣ न꣡म꣢सा꣣ स꣡हः꣢ सप꣣र्य꣢न्ति꣣ प्र꣡चे꣢तसः । व्र꣣ता꣡न्य꣢स्य सश्चिरे पु꣣रू꣡णि꣢ पू꣣र्व꣡चि꣢त्तये꣣ व꣢स्वी꣣र꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥१००७॥

ताः । अ꣣स्य । न꣡म꣢꣯सा । स꣡हः꣢꣯ । स꣣प꣡र्यन्ति꣢ । प्र꣡चे꣢꣯तसः । प्र । चे꣣तसः । व्रता꣡नि꣢ । अ꣣स्य । सश्चिरे । पुरू꣡णि꣢ । पू꣣र्व꣡चि꣢त्तये । पू꣣र्व꣢ । चि꣣त्तये । वस्वीः । अ꣡नु꣢꣯ । स्व꣣रा꣡ज्य꣢म् । स्व꣣ । रा꣡ज्य꣢꣯म् ॥१००७॥

Mantra without Swara
ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः । व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥

ताः । अस्य । नमसा । सहः । सपर्यन्ति । प्रचेतसः । प्र । चेतसः । व्रतानि । अस्य । सश्चिरे । पुरूणि । पूर्वचित्तये । पूर्व । चित्तये । वस्वीः । अनु । स्वराज्यम् । स्व । राज्यम् ॥१००७॥

Samveda - Mantra Number : 1007
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सूर्यदीधितिपक्षे। (प्रचेतसः) प्रज्ञापिकाः (ताः) सूर्यदीधितयः (नमसा) चन्द्रादिलोकानां प्रति नमनेन (अस्य) एतस्य इन्द्रस्य सूर्यस्य (सहः) बलम् (सपर्यन्ति) वर्धयन्ति। किञ्च (पूर्वचित्तये२) सूर्यस्य क्षितिजे उदयात् पूर्वमेव चित्तये प्रज्ञानाय (अस्य) सूर्यस्य (पुरूणि) बहूनि (व्रतानि) प्रकाशनादीनि कर्माणि (सश्चिरे) प्राप्नुवन्ति, कुर्वन्तीत्यर्थः। [सश्चतिः गतिकर्मा। निघं० २।१४।] एवम् (वस्वीः) वस्व्यः निवासहेतुभूताः ताः (स्वराज्यम्) सूर्यस्य आत्मनः साम्राज्यम् (अनु) अनुक्रमेण वर्धयन्ति ॥ द्वितीयः—सेनापक्षे। (प्रचेतसः) प्रकृष्टचित्ताः (ताः) सेनाः (नमसा) नमस्कारेण (अस्य) एतस्य इन्द्रस्य सेनाध्यक्षस्य (सहः) बलम् (सपर्यन्ति) प्रशंसन्ति। किञ्च (अस्य) सेनाध्यक्षस्य (पूर्वचित्तये) पूर्वमेव विज्ञापनाय (पुरूणि) बहूनि (व्रतानि) शत्रुषु भयोत्पादनादीनि कर्माणि (सश्चिरे) कुर्वन्ति। एवम् (वस्वीः) वस्व्यः स्वराष्ट्रनिवासहेतुभूताः ताः (स्वराज्यम्) स्वकीयराष्ट्रस्य राज्यम् (अनु) अनुकूलमाचरन्ति ॥३॥३
Essence
सूर्यदीधितयो यथा सूर्येण मिलित्वा सेनाश्च यथा सेनापतिना मिलित्वा स्वराज्यं वर्धयन्ति तथैव मनुष्यैः परमेश्वरेण मिलित्वा स्वकीयमाध्यात्मिकं स्वराज्यं वर्धनीयम् ॥३॥ अस्मिन् खण्डे मनःप्रबोधनात् सूर्यस्य सूर्यरश्मीनां च स्वराज्यवर्णनमुखेन प्रजानामाध्यात्मिकस्वराज्यद्योतनाच्चैतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥
Subject
अथ सूर्यदीधितीनां सेनानां च स्वराज्यं वर्णयति।
Footnote
१. ऋ० १।८४।१२। २. पूर्वचित्तये पूर्वप्रसादनाय—इति वि०। युयुत्सूनां शत्रूणां पूर्वमेव प्रज्ञापनाय—इति सा०। पूर्वेषां संज्ञानां संज्ञापनाय वा—इति द०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सभासेनाध्यक्षविषये व्याख्यातवान्।