Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1006

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
ता꣡ अ꣢स्य पृशना꣣यु꣢वः꣣ सो꣡म꣢ꣳ श्रीणन्ति꣣ पृ꣡श्न꣢यः । प्रि꣣या꣡ इन्द्र꣢꣯स्य धे꣣न꣢वो꣣ व꣡ज्र꣢ꣳ हिन्वन्ति꣣ सा꣡य꣢कं꣣ व꣢स्वी꣣र꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥१००६॥

ताः । अ꣣स्य । पृशनायु꣡वः꣢ । सो꣡म꣢꣯म् । श्री꣣णन्ति । पृ꣡श्न꣢꣯यः । प्रि꣣याः꣢ । इ꣡न्द्र꣢꣯स्य । धे꣣न꣡वः꣢ । व꣡ज्र꣢꣯म् । हि꣣न्वन्ति । सा꣡य꣢꣯कम् । व꣡स्वीः꣢꣯ । अ꣡नु꣢꣯ । स्व꣣रा꣡ज्य꣢म् । स्व꣣ । रा꣡ज्य꣢꣯म् ॥१००६॥

Mantra without Swara
ता अस्य पृशनायुवः सोमꣳ श्रीणन्ति पृश्नयः । प्रिया इन्द्रस्य धेनवो वज्रꣳ हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥

ताः । अस्य । पृशनायुवः । सोमम् । श्रीणन्ति । पृश्नयः । प्रियाः । इन्द्रस्य । धेनवः । वज्रम् । हिन्वन्ति । सायकम् । वस्वीः । अनु । स्वराज्यम् । स्व । राज्यम् ॥१००६॥

Samveda - Mantra Number : 1006
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अस्य) इन्द्राख्यस्य सूर्यस्य (ताः पृश्नयः) ताः नानावर्णा दीधितयः (पृशनायुवः२) चन्द्रमसा पृशनं स्पर्शं कामयमाना इव (सोमम्) चन्द्रमसम् (श्रीणन्ति) प्रकाशेन परिपक्वं कुर्वन्ति। [श्रीञ् पाके क्र्यादिः।] (इन्द्रस्य) सूर्यस्य, ताः (प्रियाः) प्रेमार्हाः (धेनवः) दीधितयः (सायकम्) दुर्भिक्षादीनाम् अन्तकरम्। [स्यति विनाशयतीति सायकः, षो अन्तकर्मणि।] (वज्रम्) मेघस्थं विद्युद्वज्रम् (हिन्वन्ति) प्रेरयन्ति। एवम् (वस्वीः) वस्व्यः निवासहेतुकास्ताः (स्वराज्यम्) सूर्यस्य स्वकीयं साम्राज्यम् (अनु) अनुसरन्ति ॥२॥३ अत्र ‘पृशनायुवः’ इत्यत्र व्यङ्ग्योत्प्रेक्षालङ्कारः ॥२॥
Essence
सूर्यरश्मीनामेवेदं प्रशंसनीयं महत् कार्यं यत्ते सूर्यस्य स्वराज्यमनुसरन्तश्चन्द्रादीन् लोकान् प्रकाशयन्ति, मेघेषु विद्युद्वज्रं गर्जयन्तो वृष्टिं कुर्वन्ति, सर्वान् निवासयन्ति च। तथैव मनुष्यैरपि स्वकीयमान्तरं बाह्यं च स्वराज्यं प्रकाशनीयम् ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० १।८४।११। २. पृशनायुवः स्पर्शनकामाः—इति सा०। आत्मनः स्पर्शमिच्छन्त्यः अत्र छान्दसो वर्णलापो वेति सलोपः—इति ऋ० १।८४।११ भाष्ये द०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सूर्यकिरणपक्षे सेनापक्षे च व्याख्यातवान्।