Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1005

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
स्वा꣣दो꣢रि꣣त्था꣡ वि꣢षू꣣व꣢तो꣣ मधोः पिबन्ति गौर्यः । या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ॥१००५॥

स्वा꣣दोः꣢ । इ꣣त्था꣢ । वि꣣षूव꣡तः꣢ । वि꣣ । सूव꣡तः꣢ । म꣡धोः꣢꣯ । पि꣣बन्ति । गौर्यः꣢ । याः । इ꣡न्द्रे꣢꣯ण । स꣣या꣡व꣢रीः । स꣣ । या꣡व꣢꣯रीः । वृ꣡ष्णा꣢꣯ । म꣡द꣢꣯न्ति । शो꣣भ꣡था꣢ । व꣡स्वीः꣢꣯ । अ꣡नु꣢꣯ । स्व꣣रा꣡ज्य꣢म् । स्व꣣ । रा꣡ज्य꣢꣯म् ॥१००५॥

Mantra without Swara
स्वादोरित्था विषूवतो मधोः पिबन्ति गौर्यः । या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ॥

स्वादोः । इत्था । विषूवतः । वि । सूवतः । मधोः । पिबन्ति । गौर्यः । याः । इन्द्रेण । सयावरीः । स । यावरीः । वृष्णा । मदन्ति । शोभथा । वस्वीः । अनु । स्वराज्यम् । स्व । राज्यम् ॥१००५॥

Samveda - Mantra Number : 1005
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(गौर्यः) रोचमानाः सूर्यदीधितयः। [गौरी रोचतेर्ज्वलतिकर्मणः। निरु० ११।३९।] (इत्था) सत्यम् (वि-सुवतः) विशेषेण भूमौ वर्षतः पर्जन्यस्य (स्वादोः) उत्कृष्टस्वादवतः (मधोः) मधुरस्य उदकस्य। [द्वितीयार्थे षष्ठी।] (पिबन्ति) पानं कुर्वन्ति, (याः) सूर्यदीधितयः (वृष्णा) वर्षकेण (इन्द्रेण) सूर्येण (सयावरीः) सयावर्यः, सह वर्तमानाः सत्यः (शोभया) शोभनप्रकारेण (मदन्ति) मदयन्ति। [मदी हर्षग्लेपनयोः भ्वादिः, णिज्गर्भः।] (वस्वीः) वस्व्यः निवासयित्र्यः ताः (स्वराज्यम्) सूर्यस्य स्वकीयं साम्राज्यम् (अनु) अनुसरन्ति। [उपसर्गबलाद् योग्यक्रियाध्याहारः] ॥१॥२
Essence
अहो, दर्शनीयं सूर्यस्य स्वराज्यम्। कथं सूर्यरश्मयो निर्बाधाः सन्तो मेघाभिवृष्टं नदीनदसमुद्रादिषु व्याप्तं पयः पीत्वा पुनर्मेघान् निर्माय पुनरप्युदकं भूमौ वर्षन्ति। तथैवास्माभिरप्यन्तःस्वराज्यं राष्ट्रस्य च स्वराज्यमर्चनीयम् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४०९ क्रमाङ्के आत्मिकस्य राष्ट्रियस्य च स्वराज्यस्य विषये व्याख्याता। अत्र सूर्यस्य स्वराज्यं वर्ण्यते।
Footnote
१. ऋ० १।८४।१०, अथ० २०।१०९।१, उभयत्र ‘मधोः’, ‘शोभथा’ इत्यत्र ‘मध्वः॑’, ‘शो॒भसे॒’ इति पाठः। साम० ४०९। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं ‘नहि स्वसेनापतिभिर्वीरसेनाभिश्च विना स्वराज्यस्य शोभारक्षणे भवितुं शक्ये’ इति विषये व्याख्यातवान्।