Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1004

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
य꣢दु꣣दी꣡र꣢त आ꣣ज꣡यो꣢ धृष्णवे धीयते धनम् । युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्माँ इन्द्र वसौ दधः ॥१००४॥

यत् । उ꣣दी꣡र꣢ते । उ꣣त् । ई꣡रते꣢꣯ । आ꣣ज꣡यः꣢ । धृ꣣ष्ण꣡वे꣢ । धी꣣यते । ध꣡न꣢꣯म् । यु꣣ङ्क्ष्व꣢ । म꣣दच्यु꣡ता꣢ । म꣣द । च्यु꣡ता꣢꣯ । हरी꣢꣯इ꣡ति꣢ । कम् । ह꣡नः꣢꣯ । कम् । व꣡सौ꣢꣯ । द꣣धः । अस्मा꣢न् । इ꣣न्द्र । व꣡सौ꣢꣯ । द꣣धः ॥१००४॥

Mantra without Swara
यदुदीरत आजयो धृष्णवे धीयते धनम् । युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्माँ इन्द्र वसौ दधः ॥

यत् । उदीरते । उत् । ईरते । आजयः । धृष्णवे । धीयते । धनम् । युङ्क्ष्व । मदच्युता । मद । च्युता । हरीइति । कम् । हनः । कम् । वसौ । दधः । अस्मान् । इन्द्र । वसौ । दधः ॥१००४॥

Samveda - Mantra Number : 1004
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यत्) यदा (आजयः) आन्तरा बाह्या वा देवासुरसंग्रामाः (उदीरते) उद्गच्छन्ति, तदा (धृष्णवे) शत्रुधर्षणशीलाय एव जनाय (धनम्) ऐश्वर्यम् (धीयते) स्थाप्यते। हे (इन्द्र) विघ्नविदारक वीर मदीय मनः ! त्वम् (मदच्युता) मदच्युतौ, शत्रूणां मदं च्यावयितारौ (हरी) ज्ञानेन्द्रियकर्मेन्द्रियरूपौ अश्वौ (युङ्क्ष्व) ज्ञानग्रहणे कर्मकरणे च नियोजय। (कम्) कञ्चित्, शत्रुमिति भावः (हनः) जहि, (कम्) कञ्चित्, मित्रमिति भावः (वसौ दधः) वसुनि ऐश्वर्ये स्थापय। (अस्मान्) मित्रभूतान् (वसौ दधः) ऐश्वर्य एव स्थापय ॥३॥२
Essence
आन्तरिकेषु बाह्येषु वा युद्धेषूपस्थितेषु मन उत्साह्य ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च स्वेषु स्वेषु विषयेषु सम्यङ् नियोज्य यथावच्छत्रूणां गतिविधिं ज्ञात्वा प्रहृत्य च समस्ता रिपवः पराजेया मित्राणि च सत्कर्तव्यानि ॥३॥
Subject
तृतीया ऋक् पूर्वार्चिके ४१४ क्रमाङ्के जीवात्मनृपतिसेनापतिविषये व्याख्याता। अत्र प्रसङ्गागतो मनोविषय एवोच्यते।
Footnote
१. ऋ० १।८१।३, अथ० २०।५६।३, उभयत्र ‘धनम्’ ‘युङ्क्ष्वा’ इत्यत्र ‘धना॑’,‘यु॒क्ष्वा’ इति पाठः। साम० ४१४। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सेनापतिविषये व्याचष्टे।