Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1003

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
अ꣢सि꣣ हि꣡ वी꣢र꣣ से꣢꣫न्योऽसि꣣ भू꣡रि꣢ पराद꣣दिः꣢ । अ꣡सि꣢ द꣣भ्र꣡स्य꣢ चिद्वृ꣣धो꣡ यज꣢꣯मानाय शिक्षसि सुन्व꣣ते꣡ भूरि꣢꣯ ते꣣ व꣡सु꣢ ॥१००३॥

अ꣡सि꣢꣯ । हि । वी꣣र । से꣡न्यः꣢꣯ । अ꣡सि꣢꣯ । भू꣡रि꣢꣯ । प꣣राददिः꣢ । प꣣रा । ददिः꣢ । अ꣡सि꣢꣯ । द꣣भ्र꣡स्य꣢ । चि꣣त् । वृधः꣢ । य꣡ज꣢꣯मानाय । शि꣣क्षसि । सुन्वते꣢ । भू꣡रि꣢꣯ । ते । व꣡सु꣢꣯ ॥१००३॥

Mantra without Swara
असि हि वीर सेन्योऽसि भूरि पराददिः । असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥

असि । हि । वीर । सेन्यः । असि । भूरि । पराददिः । परा । ददिः । असि । दभ्रस्य । चित् । वृधः । यजमानाय । शिक्षसि । सुन्वते । भूरि । ते । वसु ॥१००३॥

Samveda - Mantra Number : 1003
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वीर) वीर इन्द्र, पराक्रमशालि मनः ! त्वम् (सेन्यः२) सेनासु साधुः, सेनापतिः (असि) विद्यसे, किञ्च (भूरि) बहु (पराददिः) शत्रून् दूरं प्रक्षेप्ता (असि) विद्यसे। अपि च (दभ्रस्य चित्) क्षुद्रस्य अपि (वृधः) वर्धयिता (असि) विद्यसे। त्वम् (यजमानाय) यजनशीलाय परोपकारिणे जनाय (शिक्षसि) बलं प्रयच्छसि। [शिक्षतिः दानकर्मा। निघं० ३।२०।] (सुन्वते) वीररसाभिषवं कुर्वते जनाय (ते) तव (भूरि) बहु (वसु) ऐश्वर्यं भवतीति शेषः ॥२॥३
Essence
यदा मनुष्याः स्वकीयं मनः सैनापत्येऽभिषिच्यान्तरान् बाह्यांश्च शत्रून् विजेतुं यतन्ते तदा विजयो निश्चितो जायते ॥२॥
Subject
अथ पुनरपि मनः प्रबोधयति।
Footnote
१. ऋ० १।८१।२, अथ० २०।५६।२। २. विवरणनये ‘वीरसेन्यः’ इत्येकं पदम्। अत एवैवं व्याख्यातम्—वीरसेन्यः वीराः सेन्या यस्य असौ वीरसेन्य इति। परमेतत् पदग्रन्थविरुद्धम्, तत्र ‘वीर। सेन्यः’ इति छेदस्वरयोर्दर्शनात्—इति सामश्रमी। ३. ऋग्भाष्ये दयानन्दर्षिरिममपि मन्त्रं सभाध्यक्षविषय एव व्याचष्टे।