Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1002

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
इ꣢न्द्रो꣣ म꣡दा꣢य वावृधे꣣ श꣡व꣢से वृत्र꣣हा꣡ नृ꣢꣯भिः । त꣢꣫मिन्म꣣ह꣢त्स्वा꣣जि꣢षू꣣ति꣡मर्भे꣢꣯ हवामहे꣣ स꣡ वाजे꣢꣯षु꣣ प्र꣡ नो꣡ऽविषत् ॥१००२॥

इ꣡न्द्रः꣢꣯ । म꣡दा꣢꣯य । वा꣣वृधे । श꣡व꣢꣯से । वृ꣣त्रहा꣢ । वृ꣡त्र । हा꣡ । नृ꣡भिः꣢꣯ । तम् । इत् । म꣣ह꣡त्सु꣢ । आ꣣जि꣡षु꣢ । ऊ꣣ति꣢म् । अ꣡र्भे꣢꣯ । ह꣣वामहे । सः꣢ । वा꣡जे꣢꣯षु । प्र । नः꣣ । अविषत् ॥१००२॥

Mantra without Swara
इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः । तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥

इन्द्रः । मदाय । वावृधे । शवसे । वृत्रहा । वृत्र । हा । नृभिः । तम् । इत् । महत्सु । आजिषु । ऊतिम् । अर्भे । हवामहे । सः । वाजेषु । प्र । नः । अविषत् ॥१००२॥

Samveda - Mantra Number : 1002
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वृत्रहा) पापानां हन्ता (इन्द्रः) वीरं मनः। [यन्मनः स इन्द्रः। गो० ब्रा०, उ० ४।११।] (नृभिः) विजयाकाङ्क्षिभिः मनुष्यैः (मदाय) हर्षाय (शवसे) बलाय च (वावृधे) वर्ध्यते, उत्साह्यते। (ऊतिम्) रक्षकम् (तम् इत्) तदेव मनः, वयम् (महत्सु) विकटेषु (आजिषु) आन्तरेषु बाह्येषु च संग्रामेषु, अपि च (अर्भे) अल्पे संग्रामे (हवामहे) आह्वयामः। (सः) इन्द्रः मनः (वाजेषु) तेषु युद्धेषु (नः) अस्मान् (अविषत्) रक्षेत्। [अवते रक्षणार्थाद् लेटि रूपम्] ॥१॥२
Essence
मनुष्यस्य मनश्चेन्मृतं तर्हि स जीवने कामप्युन्नतिं कर्तुं न क्षमते, मनश्चेदुत्साहपूर्णं तर्हि सर्वान् विघ्नान् रिपूंश्च तिरस्कुर्वन् सर्वत्र विजयं लभते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४११ क्रमाङ्के परमात्मजीवात्मनृपतिसेनापतिविषये व्याख्याता। अत्र मनोरूपं सेनापतिं प्रबोधयति।
Footnote
१. ऋ० १।८१।१, अथ० २०।५६।१, उभयत्र ‘षूतिमर्भे’ इत्यत्र ‘षू॒तेमर्भे॑’ इति पाठः। साम० ४११। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सभाध्यक्षविषये व्याख्यातवान्।