Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1001

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
यु꣣व꣡ꣳ हि स्थः स्वः꣢꣯पती꣣ इ꣡न्द्र꣢श्च सोम꣣ गो꣡प꣢ती । ई꣣शाना꣡ पि꣢प्यतं꣣ धि꣡यः꣢ ॥१००१॥

युव꣢म् । हि । स्थः । स्व꣢पती । स्वाऽ३रि꣡ति꣢ । प꣣तीइ꣡ति꣢ । इ꣡न्द्रः꣢꣯ । च꣣ । सोम । गो꣡प꣢꣯ती । गो । प꣣तीइ꣡ति꣢ । ई꣣शा꣢ना । पि꣣प्यतम् । धि꣡यः꣢꣯ ॥१००१॥

Mantra without Swara
युवꣳ हि स्थः स्वःपती इन्द्रश्च सोम गोपती । ईशाना पिप्यतं धियः ॥

युवम् । हि । स्थः । स्वपती । स्वाऽ३रिति । पतीइति । इन्द्रः । च । सोम । गोपती । गो । पतीइति । ईशाना । पिप्यतम् । धियः ॥१००१॥

Samveda - Mantra Number : 1001
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) जगत्स्रष्टः परमात्मन् ! त्वम् (इन्द्रः च) अज्ञानविदारकः आचार्यश्च (युवम् हि) युवाम् खलु उभावपि (स्वःपती) ज्ञानप्रकाशस्य स्वामिनौ, (गोपती) वाक्पती च (स्थः) विद्येथे। (ईशाना) ईशानौ ज्ञानस्य वाचश्च स्वामिनौ युवाम् अस्माकम् (धियः) सत्प्रज्ञाः सत्कर्माणि च (पिप्यतम्) वर्धयतम्। [ओप्यायी वृद्धौ, प्यायः पी] ॥३॥
Essence
परमात्मन उपासनेन गुरोश्च सत्कारेण श्रेष्ठं सत्यं ज्ञानं प्राप्य तदनुकूलानि कर्माणि च कृत्वा मनुष्याः स्वजीवनमुन्नेतुं पारयन्ति ॥३॥ अस्मिन् खण्डे परमात्मनो ब्रह्मानन्दरसस्याऽऽचार्यस्य प्रसङ्गतश्च गवां गोदुग्धक्षारणस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ सोमनाम्ना परमेश्वर इन्द्रनाम्ना चाचार्य उच्यते।
Footnote
१. ऋ० ९।१९।२, ‘स्वर्पती॒’ इति पाठः।