Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 100

1875 Mantra
Devata- अग्निः Rishi- विश्वामित्रो गाथिनः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣢ग्ने꣣ य꣡जि꣢ष्ठो अध्व꣣रे꣢ दे꣣वा꣡न् दे꣢वय꣣ते꣡ य꣢ज । हो꣡ता꣢ म꣣न्द्रो꣡ वि रा꣢꣯ज꣣स्य꣢ति꣣ स्रि꣡धः꣢ ॥१००॥

अ꣡ग्ने꣢꣯ । य꣡जि꣢꣯ष्ठः । अ꣣ध्वरे꣢ । दे꣣वा꣢न् । दे꣣वयते꣢ । य꣣ज । हो꣡ता꣢꣯ । म꣣न्द्रः꣢ । वि । रा꣣जसि । अ꣡ति꣢꣯ । स्रि꣡धः꣢꣯ ॥१००॥

Mantra without Swara
अग्ने यजिष्ठो अध्वरे देवान् देवयते यज । होता मन्द्रो वि राजस्यति स्रिधः ॥

अग्ने । यजिष्ठः । अध्वरे । देवान् । देवयते । यज । होता । मन्द्रः । वि । राजसि । अति । स्रिधः ॥१००॥

Samveda - Mantra Number : 100
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे अग्ने ज्ञानप्रकाश परमेश्वर आचार्य वा! यजिष्ठः अतिशयेन यष्टा जीवनयज्ञस्य अध्ययनाध्यापनयज्ञस्य वा साधकः त्वम्। यजधातोसतृजन्तात् यष्टृशब्दाद अतिशायने इष्ठानि तुरिष्ठेमेयस्सु। अ ६।४।१५४ सति तृलोपः। अध्वरे हिंसादिदोषरहिते जीवनयज्ञे अध्ययनाध्यापनयज्ञे वा देवयते देवान् दिव्यान गुणकर्मस्वभावान् यज प्रापय। यजतिरत्र दानार्थः। होता विद्यासदाचारादीनां दाता मन्द्रः आह्लादकः। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु सति धातोः। स्फायितञ्चिवञ्चि उ. २।१३ इत्यनेन औणादिकः रक् प्रत्ययः। त्वम् विराजसि विशेषण शोभसे। राजृ दीप्तौ, भ्वादिः परस्मैपदं छान्दसम्। त्वम् स्रिधः हिंसकान्, विद्याविघातकान् आलस्यमदमोहादीन्, ब्रह्मचर्यविघातकान् कामक्रोधादींश्च। स्रेधतिः हिंसाकर्मा छान्दसः। अस्मत्तः अतिगमय। उपस्रगश्रुतेर्योग्यक्रियाध्याहारः॥ अत्र श्लेषालङ्कारः यजि, यज, देवा, देव इत्यत्र च छेकानुप्रासः।
Essence
यथा परमेश्वर उपासकेभ्यों दिव्यगुणकर्मस्वभावान् प्रयच्छति पापेभ्यश्च तान् निवारयति, तथैवाचार्यः शिष्यान् विद्यां, सच्चारित्र्यं, दिव्यगुणकर्मस्वभावंश्च शिक्षयन् ब्रह्मचर्यविघात केभ्यो विद्याविघातकेभ्यश्च दुर्व्यसनेभ्यस्तान् दूरं रक्षेत॥
Subject
अथ परमेश्वर आचार्यश्च प्रार्थ्यते
Footnote
ऋग्वेद ३।१०।७, ऋग्वेदभाष्ये दयानन्दर्षिणा मन्त्रोऽयं विद्वत्पक्षे व्याख्यातः।