Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 10

1875 Mantra
Devata- अग्निः Rishi- वामदेवः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣢ग्ने꣣ वि꣡व꣢स्व꣣दा꣡ भ꣢रा꣣स्म꣡भ्य꣢मू꣣त꣡ये꣢ म꣣हे꣢ । दे꣣वो꣡ ह्यसि꣢꣯ नो दृ꣣शे꣢ ॥१०

अ꣡ग्ने꣢꣯ । वि꣡व꣢꣯स्वत् । वि । व꣣स्वत् । आ꣢ । भ꣣र । अस्म꣡भ्य꣢म् । ऊ꣣त꣡ये꣢ । म꣣हे꣢ । दे꣣वः꣢ । हि । अ꣡सि꣢꣯ । नः꣢ । दृशे꣢ ॥१०॥

Mantra without Swara
अग्ने विवस्वदा भरास्मभ्यमूतये महे । देवो ह्यसि नो दृशे ॥१०

अग्ने । विवस्वत् । वि । वस्वत् । आ । भर । अस्मभ्यम् । ऊतये । महे । देवः । हि । असि । नः । दृशे ॥१०॥

Samveda - Mantra Number : 10
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) परमपितः परमात्मन् ! त्वम् (महे) महत्यै। मह पूजायामिति धातोः क्विपि चतुर्थ्यैकवचने रूपम्। (ऊतये) रक्षायै। रक्षणार्थाद् अवतेः ऊतियूतिजूति० अ० ३।३।९७ इत्यनेन क्तिन् स चोदात्तः। ज्वरत्वरस्रिव्यविमवामुपधायाश्च अ० ६।४।२० इति वकारस्योपधायाश्च स्थाने ऊठ्। (अस्मभ्यम्) अस्मदर्थम् (विवस्वत्१) विवासयति तमांसि इति विवस्वत् अविद्यान्धकारनिवारकम् अध्यात्मप्रकाशम् (आ भर) आहर। हृञ् हरणे धातोः हृग्रहोर्भश्छन्दसि अ० ८।२।३२ वा० इति वार्तिकेन हस्य भः। (हि) यस्मात्, त्वम् (नः) अस्माकम् (दृशे) दर्शनाय, विवेकदृष्टिप्रदानाय। दृशे विख्ये च अ० ३।४।११ इति निपातनात् तुमर्थे केप्रत्ययः। (देवः) प्रकाशकः। द्युत्यर्थाद् दिवु धातोः पचाद्यच्। (असि) वर्तते ॥१०॥ श्लेषालङ्कारेण मन्त्रः सूर्यपक्षेऽपि योजनीयः ॥१०॥
Essence
सूर्याग्निर्यथा जीवानां रक्षणाय तमोनिरासकं ज्योतिः प्रयच्छति, तथा परमेश्वरोऽविद्यास्मितारागद्वेषमोहाद्यन्धकारनिरासायास्मभ्यम् आध्यात्मिकं तेजः प्रदद्यात् ॥१०॥ इति प्रथमे प्रपाठके, प्रथमार्धे प्रथमा दशतिः। इति प्रथमेऽध्याये प्रथमः खण्डः।
Subject
अथ परमात्मनः सकाशात् परमं ज्योतिः प्रार्थ्यते।
Footnote
१. विवस्वत् विवासनवत् तमसां विवासनकरम्। किं तत्? सामर्थ्यात् ज्योतिः इति वि०। विवासयत् तमांसि तेजः इति भ०। विवस्वत् स्वर्गादिलोकेषु विशेषेण निवासस्य हेतुभूतमिदं कर्म आभर सम्पादय इति सा०।