Samveda (Acharya Dharmadev Vidya Martand)

Samveda Mantra 957

1875 Mantra
Devata- पवमानः सोमः Rishi- त्रय ऋषयः Chhand- जगती Swara- निषादः
Mantra with Swara
ई꣣शान꣢ इ꣣मा꣡ भुव꣢꣯नानि꣣ ई꣡य꣢से युजा꣣न꣡ इ꣢न्दो ह꣣रि꣡तः꣢ सुप꣣꣬र्ण्यः꣢꣯ । ता꣡स्ते꣢ क्षरन्तु꣣ म꣡धु꣢मद्घृ꣣तं꣢꣫ पय꣣स्त꣡व꣢ व्र꣣ते꣡ सो꣢म तिष्ठन्तु कृ꣣ष्ट꣡यः꣢ ॥९५७॥

ई꣣शानः꣢ । इ꣣मा꣢ । भु꣡व꣢꣯नानि । ई꣡य꣢꣯से । यु꣣जानः꣢ । इ꣣न्दो । हरि꣡तः꣢ । सुप꣢र्ण्यः । सु꣣ । पर्ण्यः꣢ । ताः । ते꣢ । क्षरन्तु । म꣡धुम꣢꣯त् । घृ꣣त꣢म् । प꣣यः꣢ । त꣡व꣢꣯ । व्र꣣ते꣢ । सो꣣म । तिष्ठन्तु । कृष्ट꣡यः꣢ ॥९५७॥

Mantra without Swara
ईशान इमा भुवनानि ईयसे युजान इन्दो हरितः सुपर्ण्यः । तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः ॥

ईशानः । इमा । भुवनानि । ईयसे । युजानः । इन्दो । हरितः । सुपर्ण्यः । सु । पर्ण्यः । ताः । ते । क्षरन्तु । मधुमत् । घृतम् । पयः । तव । व्रते । सोम । तिष्ठन्तु । कृष्टयः ॥९५७॥

Samveda - Mantra Number : 957
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 1;

Samveda (Acharya Dharmadev Vidya Martand)

English
Samveda (Acharya Dharmadev Vidya Martand) - English
Translation
O God ! Thou pervadest these worlds as Sovereign Lord there. Thou promptest Thy active Subjects to do noble deeds. May they manifest beautiful sweet light and drink deep of the juice of Thy devotion. Let all people abide by Thy decree, being always engaged in carrying out Thy instructions as given in the Vedas.
Comment
(हरितः) - मनोहारिण्यः आहरन्ति गृह्णन्ति सर्वेषां मनांसीति हरितः प्रजाः । (सुपर्ण्यः) - पृ-पालन पूरणयोः पिपुरति - पालयन्ति पूरयन्ति यथाशक्ति जीवान् ये ते पर्णाः धापृ (उणा० ३। ६) इति नः, पर्णानां परोपकारिणां जीवानां हिता इति सुपर्ण्यस्तान (पयः) - पेयं भगवद्-भक्तिरसम् ।