Samveda (Acharya Dharmadev Vidya Martand)

Samveda Mantra 944

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रतर्दनो दैवोदासिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
ब्र꣣ह्मा꣢ दे꣣वा꣡नां꣢ पद꣣वीः꣡ क꣢वी꣣नां꣢꣫ ऋषि꣣र्वि꣡प्रा꣢णां महि꣣षो꣢ मृ꣣गा꣡णा꣢म् । श्ये꣣नो꣡ गृध्रा꣢꣯णा꣣ꣳ स्व꣡धि꣢ति꣣र्व꣡ना꣢ना꣣ꣳ सो꣡मः꣢ प꣣वि꣢त्र꣣म꣡त्ये꣢ति꣣ रे꣡भ꣢न् ॥९४४॥

ब्र꣣ह्मा꣡ । दे꣣वा꣡ना꣢म् । प꣣दवीः꣢ । प꣣द । वीः꣢ । क꣣वीना꣢म् । ऋ꣡षिः꣢꣯ । वि꣡प्रा꣢꣯णाम् । वि । प्रा꣣णाम् । महिषः꣢ । मृ꣣गा꣡णा꣢म् । श्ये꣣नः꣢ । गृ꣡ध्रा꣢꣯णाम् । स्व꣡धि꣢꣯तिः । स्व । धि꣣तिः । व꣡ना꣢꣯नाम् । सो꣡मः꣢꣯ । प꣣वि꣡त्र꣢म् । अ꣡ति꣢꣯ । ए꣣ति । रे꣡भ꣢꣯न् ॥९४४॥

Mantra without Swara
ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणाꣳ स्वधितिर्वनानाꣳ सोमः पवित्रमत्येति रेभन् ॥

ब्रह्मा । देवानाम् । पदवीः । पद । वीः । कवीनाम् । ऋषिः । विप्राणाम् । वि । प्राणाम् । महिषः । मृगाणाम् । श्येनः । गृध्राणाम् । स्वधितिः । स्व । धितिः । वनानाम् । सोमः । पवित्रम् । अति । एति । रेभन् ॥९४४॥

Samveda - Mantra Number : 944
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 6;

Samveda (Acharya Dharmadev Vidya Martand)

English
Samveda (Acharya Dharmadev Vidya Martand) - English
Translation
(1) “The human spirit is the conscious entity that presents to its consciousness all that the senses reveal. The human Spirit is the true sentient being that understands the working of the senses, It is the cognisor of sensations, the great of all the hunters. [The meaning is that it is really through the power of the Atma that the senses are enabled to find out their proper objects. The Atma is called Shyena as to it belongs the power of realisation and senses are the gridhras for they provide the material for such realisation. The Atma pervades these senses. The Atma is the Master whom all senses serve. The activity of Atma is all for itself, man being an end unto himself. The senses are called vanas; for they serve their master - the human spirit. It is this Atma that being pure it its nature, Pandit Guru Datta M.A.) enjoys all. (2) God is Chief among the enlightened. He is the Inspirer of the poets. He is the Seer among the wise. He is the Greatest among the Knowers of Reality. He is the Well-wisher of all who desire noble objects. He is like the thunderbolt among the rays. He goes to or is attained by absolutely pure persons, giving them the Vedic Wisdom.
Comment
यास्काचार्योनिरुक्ते अथाध्यात्मं ब्रह्मादेवानाम इत्ययमपि ब्रह्मा भवति देवानां देवनकर्मणामिन्द्रियाणाम् । (पदवीः कवीनामिपदं वेत्ति कवीनां कवीयमानानामिन्द्रियाणाम् ऋषिर्विप्राणाम्) अयमपि ऋषिर्भवति विप्राणां व्यापनकर्मणामिन्द्रियाणाम् । (महिषो मृगाणाम) अयमपि महान् भवति मार्गणकर्मणामिन्द्रियाणाम् (महिषोमृगाणाम्) अयमपि महान् भवति मार्गण कर्मणामिन्द्रियाणाम् (श्येनोगृध्राणाम्) श्येन आत्मा भवति श्यायतेर्ज्ञानकर्मणो गृ ध्राणीन्द्रियाणि गृध्यतेर्ज्ञान कर्मणो यत एतस्मिंस्तिष्ठति (स्वधितिर्वनानाम्) अयमपि स्वयं कर्माण्यात्मनि धत्तेवनन कर्मणामिन्द्रियाणां (सोमः पवित्रम् अत्येतिरेभन्) सूयमानोऽयमेवैतत् सर्वमनुभवति - आत्मगतिमाचष्टे (निरुक्ते अ० १४) ।