Samveda (Acharya Dharmadev Vidya Martand)

Samveda Mantra 822

1875 Mantra
Devata- पवमानः सोमः Rishi- सिकता निवावरी Chhand- जगती Swara- निषादः
Mantra with Swara
म꣣नीषि꣡भिः꣢ पवते पू꣣र्व्यः꣢ क꣣वि꣡र्नृभि꣢꣯र्य꣣तः꣢꣫ परि꣣ को꣡शा꣢ꣳ असिष्यदत् । त्रि꣣त꣢स्य꣣ ना꣡म꣢ ज꣣न꣢य꣣न्म꣢धु꣣ क्ष꣢र꣣न्नि꣡न्द्र꣢स्य वा꣣यु꣢ꣳ स꣣ख्या꣡य꣢ व꣣र्ध꣡य꣢न् ॥८२२॥

म꣢नी꣡षिभिः꣣ । प꣣वते । पूर्व्यः꣡ । क꣣विः꣢ । नृ꣡भिः꣢꣯ । य꣣तः꣢ । प꣡रि꣢꣯ । को꣡शा꣢꣯न् । अ꣣सिष्यदत् । त्रित꣡स्य꣢ । ना꣡म꣢꣯ । ज꣣न꣡य꣢न् । म꣡धु꣢꣯ । क्ष꣡र꣢꣯न् । इ꣡न्द्र꣢꣯स्य । वा꣡यु꣢म् । स꣣ख्या꣡य꣢ । स꣣ । ख्या꣡य꣢꣯ । व꣣र्द्ध꣡य꣢न् ॥८२२॥

Mantra without Swara
मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशाꣳ असिष्यदत् । त्रितस्य नाम जनयन्मधु क्षरन्निन्द्रस्य वायुꣳ सख्याय वर्धयन् ॥

मनीषिभिः । पवते । पूर्व्यः । कविः । नृभिः । यतः । परि । कोशान् । असिष्यदत् । त्रितस्य । नाम । जनयन् । मधु । क्षरन् । इन्द्रस्य । वायुम् । सख्याय । स । ख्याय । वर्द्धयन् ॥८२२॥

Samveda - Mantra Number : 822
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 5;

Samveda (Acharya Dharmadev Vidya Martand)

English
Samveda (Acharya Dharmadev Vidya Martand) - English
Translation
This Most Ancient (Eternal) and Omniscient God when meditated upon by the wise, purifies them and enters the hearts of those who cry to Him for purity. He makes the soul sweetly healthy for His friendship and enables her to grow harmoniously.
Comment
कोशान - क्रोशतः - पाधित्रयं सम्पादयतेति शब्दं कुर्वतः अथवा कोशो हृदयम् - हृदयानि। त्रितस्य इन्द्रस्य - त्रीन् जन्मजरामृत्यून इतः प्राप्तस्य सांसारिक जीवस्य नाम - अमे-रोगे न आमयत्यनेनेति आरोग्यम भ० आ०