Samveda (Acharya Dharmadev Vidya Martand)

Samveda Mantra 1686

1875 Mantra
Devata- इन्द्रः Rishi- विश्वमना वैयश्वः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
तं꣢ वो꣣ वा꣡जा꣢नां꣣ प꣢ति꣣म꣡हू꣢महि श्रव꣣स्य꣡वः꣢ । अ꣡प्रा꣢युभिर्य꣣ज्ञे꣡भि꣢र्वावृ꣣धे꣡न्य꣢म् ॥१६८६॥

तम् । वः꣣ । वा꣡जा꣢꣯नाम् । प꣡ति꣢꣯म् । अ꣡हू꣢꣯महि । श्र꣣वस्य꣡वः꣢ । अ꣡प्रा꣢꣯युभिः । अ । प्रा꣣युभिः । यज्ञे꣡भिः꣢ । वा꣣वृधे꣡न्य꣢म् ॥१६८६॥

Mantra without Swara
तं वो वाजानां पतिमहूमहि श्रवस्यवः । अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥

तम् । वः । वाजानाम् । पतिम् । अहूमहि । श्रवस्यवः । अप्रायुभिः । अ । प्रायुभिः । यज्ञेभिः । वावृधेन्यम् ॥१६८६॥

Samveda - Mantra Number : 1686
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 3;

Samveda (Acharya Dharmadev Vidya Martand)

English
Samveda (Acharya Dharmadev Vidya Martand) - English
Translation
We seeking wisdom, invoke this God for your welfare Who is the Lord of wealth and power and Who can be pleased with noble deeds performed by men, not inattentive to their duties.
Comment
(यज्ञैः) - शुभकर्मभिर्देवपूजा संगति करणदानरूपैः यज- देव पूजा संगति करण दानेषु (अप्रायुभिः) - प्रमादरहितैः स्थिरवृत्तिभिर्वा यव:- मनुष्याः (निघ० २ । ३) प्रायवः प्रकर्षेण यन्तीति प्रायवः - चंचलमनुष्याः अप्रायवः - अचंचला स्थिर वृत्तयो वा मनुष्यास्तादृशैः सम्पादितैः ।