Samveda (Acharya Dharmadev Vidya Martand)

Samveda Mantra 1375

1875 Mantra
Devata- अग्निः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
प्रे꣡द्धो꣢ अग्ने दीदिहि पु꣣रो꣡ नोऽज꣢꣯स्रया सू꣣꣬र्म्या꣢꣯ यविष्ठ । त्वा꣡ꣳ शश्व꣢꣯न्त꣣ उ꣡प꣢ यन्ति꣣ वा꣡जाः꣢ ॥१३७५॥

प्रे꣡द्धः꣢꣯ । प्र । इ꣣द्धः । अग्ने । दीदिहि । पुरः꣢ । नः꣣ । अ꣡ज꣢꣯स्रया । अ । ज꣣स्रया । सू꣢र्म्या꣢꣯ । य꣣विष्ठ । त्वा꣡म् । श꣡श्व꣢꣯न्तः । उ꣡प꣢꣯ । य꣣न्ति । वा꣡जाः꣢꣯ ॥१३७५॥

Mantra without Swara
प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वाꣳ शश्वन्त उप यन्ति वाजाः ॥

प्रेद्धः । प्र । इद्धः । अग्ने । दीदिहि । पुरः । नः । अजस्रया । अ । जस्रया । सूर्म्या । यविष्ठ । त्वाम् । शश्वन्तः । उप । यन्ति । वाजाः ॥१३७५॥

Samveda - Mantra Number : 1375
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 3;

Samveda (Acharya Dharmadev Vidya Martand)

English
Samveda (Acharya Dharmadev Vidya Martand) - English
Translation
O Ever Youthful God, Shine Thou before us, well - kindled with the flame of knowledge that never fadeth. Eternal knowledge and Powers dwell in Thee and wise men in large numbers always approach Thee.
Comment
(शश्वन्तो वाजाः) - वाज शब्दो वज- गतौ इति धातोर्निष्पद्यते गति शब्दस्य ज्ञानगमनप्रातिरूपेष्वर्थेषु अत्र ज्ञानार्थग्रहणम भगवान् नित्यज्ञानाश्रयः तथा वाज इति बलनाम (निघ २ । ९) इत्थं परमेश्वरे नित्यज्ञानस्य नित्यायाः शक्तेश्चनिवासइत्येकं तात्पर्यम्
(२) वाजाः- ज्ञानरूपधनस्वामिनः शश्वत् इति बहुनाम (निघ० ३। १) तस्मात् शश्वन्तः - बहुसंख्यकाः