Samveda (Acharya Dharmadev Vidya Martand)

Samveda Mantra 1374

1875 Mantra
Devata- अग्निः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
त꣢म꣣ग्नि꣢꣫मस्ते꣣ व꣡स꣢वो꣣꣬ न्यृ꣢꣯ण्वन्त्सुप्रति꣣च꣢क्ष꣣म꣡व꣢से꣣ कु꣡त꣢श्चित् । द꣣क्षा꣢य्यो꣣ यो꣢꣫ दम꣣ आ꣢स꣣ नि꣡त्यः꣢ ॥१३७४॥

तम् । अ꣣ग्नि꣢म् । अ꣡स्ते꣢꣯ । व꣡स꣢꣯वः । नि । ऋ꣣ण्वन् । सुप्रतिच꣡क्ष꣢म् । सु꣣ । प्रतिच꣡क्ष꣢म् । अ꣡व꣢꣯से । कु꣡तः꣢꣯ । चि꣣त् । दक्षा꣡य्यः꣢ । यः । द꣡मे꣢꣯ । आ꣡स꣢꣯ । नि꣡त्यः꣢꣯ ॥१३७४॥

Mantra without Swara
तमग्निमस्ते वसवो न्यृण्वन्त्सुप्रतिचक्षमवसे कुतश्चित् । दक्षाय्यो यो दम आस नित्यः ॥

तम् । अग्निम् । अस्ते । वसवः । नि । ऋण्वन् । सुप्रतिचक्षम् । सु । प्रतिचक्षम् । अवसे । कुतः । चित् । दक्षाय्यः । यः । दमे । आस । नित्यः ॥१३७४॥

Samveda - Mantra Number : 1374
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 3;

Samveda (Acharya Dharmadev Vidya Martand)

English
Samveda (Acharya Dharmadev Vidya Martand) - English
Translation
Brahma Charis (Who observe the vow of continence for at least 25 years and practise Pranayama) seek God within their house (in the form of heart) for their protection from all sides. God is Resplendent, giving light to all to see things of the world. It is He Who being Eternal gives strength and Who pervading the whole universe which is like His house, must be adored for ever.
Comment
(अस्ते) - गृहे हृदयरूपे अस्तमिति गृहनाम (निघ० ३ । ४) तथा च भगवद्गीतायाम् “ईश्वरः सर्वभूतानां हृदेशेऽजुन तिष्ठति” (१ । ६१) (दक्षाय्यः) - बलप्रापकः दक्ष इति बलनाम (निघ २ । ९) अय-गतौ गतेस्त्रिष्वर्थेषु प्राप्त्यर्थ- ग्रहणमत्र ।