Samveda (Acharya Dharmadev Vidya Martand)

Samveda Mantra 1357

1875 Mantra
Devata- पवमानः सोमः Rishi- पराशरः शाक्त्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
आ꣡ जागृ꣢꣯वि꣣र्वि꣡प्र꣢ ऋ꣣तं꣢ म꣢ती꣣ना꣡ꣳ सोमः꣢꣯ पुना꣣नो꣡ अ꣢सदच्च꣣मू꣡षु꣢ । स꣡प꣢न्ति꣣ यं꣡ मि꣢थु꣣ना꣢सो꣣ नि꣡का꣢मा अध्व꣣र्य꣡वो꣢ रथि꣣रा꣡सः꣢ सु꣣ह꣡स्ताः꣢ ॥१३५७॥

आ꣢ । जा꣡गृ꣢꣯विः । वि꣡प्रः꣢꣯ । वि । प्रः꣣ । ऋत꣢म् । म꣣तीना꣢म् । सो꣡मः꣢꣯ । पु꣣नानः꣢ । अ꣣सदत् । चमू꣡षु꣢ । स꣡प꣢꣯न्ति । यम् । मि꣣थुना꣡सः꣢ । नि꣡का꣢꣯माः । नि । का꣣माः । अध्वर्य꣡वः꣢ । र꣣थिरा꣡सः꣢ । सु꣣ह꣡स्ताः꣢ । सु꣣ । ह꣡स्ताः꣢꣯ ॥१३५७॥

Mantra without Swara
आ जागृविर्विप्र ऋतं मतीनाꣳ सोमः पुनानो असदच्चमूषु । सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥

आ । जागृविः । विप्रः । वि । प्रः । ऋतम् । मतीनाम् । सोमः । पुनानः । असदत् । चमूषु । सपन्ति । यम् । मिथुनासः । निकामाः । नि । कामाः । अध्वर्यवः । रथिरासः । सुहस्ताः । सु । हस्ताः ॥१३५७॥

Samveda - Mantra Number : 1357
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 2;

Samveda (Acharya Dharmadev Vidya Martand)

English
Samveda (Acharya Dharmadev Vidya Martand) - English
Translation
God is seated in the hearts of His true devotees who enjoy the juice of devotion. He is ever watchful (Omniscient) making up the deficiencies of those who are devoted to Him and purifying the truth of wise men. He is the true object of our hymns. Him the performers of non - violent sacrifices who are masters of the chariot of their bodies and skillful-handed paired (accompanied by their wives) and eager, follow and attain.
Comment
(चमूषु) भगवद् भक्त यास्वादपरायणेषु जीवेषु तेषां हृदयेषु - (रथिरास:) - शरीररूपरथस्वामिनः “शरीरं रथमेव तु” ॥ (कठ० १३ । ३)