Samveda (Acharya Dharmadev Vidya Martand)

Samveda Mantra 1301

1875 Mantra
Devata- पवमानाध्येता Rishi- पवित्र आङ्गिरसो वा वसिष्ठो वा उभौ वा Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
पा꣣वमानी꣡र्द꣢धन्तु न इ꣣मं꣢ लो꣣क꣡मथो꣢꣯ अ꣣मु꣢म् । का꣢मा꣣न्त्स꣡म꣢र्धयन्तु नो दे꣣वी꣢र्दे꣣वैः꣢ स꣣मा꣡हृ꣢ताः ॥१३०१

पा꣣वमानीः꣢ । द꣣धन्तु । नः । इम꣢म् । लो꣣क꣢म् । अ꣡थ꣢꣯ । उ꣣ । अमु꣢म् । का꣡मा꣢꣯न् । सम् । अ꣣र्धयन्तु । नः । देवीः꣡ । दे꣣वैः꣡ । स꣣मा꣡हृ꣢ताः । स꣣म् । आ꣡हृ꣢꣯ताः ॥१३०१॥

Mantra without Swara
पावमानीर्दधन्तु न इमं लोकमथो अमुम् । कामान्त्समर्धयन्तु नो देवीर्देवैः समाहृताः ॥१३०१

पावमानीः । दधन्तु । नः । इमम् । लोकम् । अथ । उ । अमुम् । कामान् । सम् । अर्धयन्तु । नः । देवीः । देवैः । समाहृताः । सम् । आहृताः ॥१३०१॥

Samveda - Mantra Number : 1301
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 7;

Samveda (Acharya Dharmadev Vidya Martand)

English
Samveda (Acharya Dharmadev Vidya Martand) - English
Translation
Metrical Translation:-
Let Revelation purify
This world and the next
Let Wisdom Divine beautify
Our life, passing all test.
Let the Revealed hymns fulfil
Spirit of service and sacrifice
Ever practised by the wise.
Comment
(देवीः) देवो दानाद्वा दीपनाद् वा द्योतनाद् वा इति ७। ४। १५
निरुक्तानुसारं ज्ञानदात्र्य ऋचः (देवैः) - सत्यनिष्ठैर्विद्वद्भिः सत्यसंहिता वै देवाः ॥ (ऐत० १ । ६) सत्यमया उ देवाः (कौषी० २। ८) विद्वांसो हि देवा (शत० २ । ७ । ३ । १०)