Samveda (Acharya Dharmadev Vidya Martand)

Samveda Mantra 1032

1875 Mantra
Devata- पवमानः सोमः Rishi- त्रय ऋषयः Chhand- जगती Swara- निषादः
Mantra with Swara
अ꣣भि꣡क्रन्द꣢न्क꣣ल꣡शं꣢ वा꣣꣬ज्य꣢꣯र्षति꣣ प꣡ति꣢र्दि꣣वः꣢ श꣣त꣡धा꣢रो विचक्ष꣣णः꣢ । ह꣡रि꣢र्मि꣣त्र꣢स्य꣣ स꣡द꣢नेषु सीदति मर्मृजा꣣नो꣡ऽवि꣢भिः꣣ सि꣡न्धु꣢भि꣣र्वृ꣡षा꣢ ॥१०३२॥

अ꣣भिक्र꣡न्द꣢न् । अ꣣भि । क्र꣡न्द꣢꣯न् । क꣣ल꣡श꣢म् । वा꣡जी꣢ । अ꣣र्षति । प꣡तिः꣢꣯ । दि꣣वः꣢ । श꣡त꣢धा꣢रः । श꣣त꣢ । धा꣣रः । विचक्षणः꣣ । वि꣢ । चक्षणः꣢ । ह꣡रिः꣢꣯ । मि꣣त्र꣡स्य꣢ । मि꣢ । त्र꣡स्य꣢꣯ । स꣡द꣢꣯नेषु । सी꣣दति । मर्मृजानः꣢ । अ꣡वि꣢꣯भिः । सि꣡न्धु꣢꣯भिः । वृ꣡षा꣢꣯ ॥१०३२॥

Mantra without Swara
अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः । हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा ॥

अभिक्रन्दन् । अभि । क्रन्दन् । कलशम् । वाजी । अर्षति । पतिः । दिवः । शतधारः । शत । धारः । विचक्षणः । वि । चक्षणः । हरिः । मित्रस्य । मि । त्रस्य । सदनेषु । सीदति । मर्मृजानः । अविभिः । सिन्धुभिः । वृषा ॥१०३२॥

Samveda - Mantra Number : 1032
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 1;

Samveda (Acharya Dharmadev Vidya Martand)

English
Samveda (Acharya Dharmadev Vidya Martand) - English
Translation
The Lord of Joy, the Almighty and All-seeing, the Giver of the Vedic Speech dealing with various subjects, Omniscient God flows down with a resounding noise (so to speak) into the soul. He the Destroyer of sin and ignorance sits in the heart of His friends who are devoted to Him, being sought after by kind-hearted persons who are to be protected by Him, as He is the Rainer of blessings.
Comment
(दिवः) - आनन्दस्य दिवु- धातोरनेकार्थेषु अत्र मोदार्थ ग्रहणम् (शतधारः) - शतधारा वेद रूपा वाचो यस्य शतमिति बहुनाम निघ० ३। १ धारेति वाङ्नाम निघ० १। ११) (सदनेषु) - हृदयरूप गृहेषु । (अविभिः) - रक्षणीयैः (सिन्धुभिः) स्यन्दनशीलैः परमात्मानं स्मारं स्मारं स्यन्दन्ते प्रस्रवन्ति अथवा क्लेशार्तान् दृष्ट्वा स्यदन्ते इति दर्याद्रहृदया भक्तास्तैः ।