Mantra with Swara
स सु॒क्रतु॒र्यो वि दुरः॑ पणी॒नां पु॑ना॒नो अ॒र्कं पु॑रु॒भोज॑सं नः। होता॑ म॒न्द्रो वि॒शां दमू॑नास्ति॒रस्तमो॑ ददृशे रा॒म्याणा॑म् ॥२॥
सः । सु॒ऽक्रतुः॑ । यः । वि । दुरः॑ । प॒णी॒नाम् । पु॒ना॒नः । अ॒र्कम् । पु॒रु॒ऽभोज॑सम् । नः॒ । होता॑ । म॒न्द्रः । वि॒शाम् । दमू॑नाः । ति॒रः । तमः॑ । द॒दृ॒शे॒ । रा॒म्याणा॑म् ॥
Mantra without Swara
स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः। होता मन्द्रो विशां दमूनास्तिरस्तमो ददृशे राम्याणाम् ॥
सः। सुऽक्रतुः। यः। वि। दुरः। पणीनाम्। पुनानः। अर्कम्। पुरुऽभोजसम्। नः। होता। मन्द्रः। विशाम्। दमूनाः। तिरः। तमः। ददृशे। राम्याणाम् ॥२॥
Ashtak » 5
Adhyay » 2
Varga » 12
Mantra » 2
