Mantra with Swara
इ॒दं वचः॑ शत॒साः संस॑हस्र॒मुद॒ग्नये॑ जनिषीष्ट द्वि॒बर्हाः॑। शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑ति द्यु॒मद॑मीव॒चात॑नं रक्षो॒हा ॥६॥
इ॒दम् । वचः॑ । श॒त॒ऽसाः । सम्ऽस॑हस्रम् । उत् । अ॒ग्नये॑ । ज॒नि॒षी॒ष्ट॒ । द्वि॒ऽबर्हाः॑ । शम् । यत् । स्तो॒तृऽभ्यः॑ । आ॒पये॑ । भवा॑ति । द्यु॒ऽमत् । अ॒मी॒व॒ऽचात॑नम् । र॒क्षः॒ऽहा ॥
Mantra without Swara
इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट द्विबर्हाः। शं यत्स्तोतृभ्य आपये भवाति द्युमदमीवचातनं रक्षोहा ॥
इदम्। वचः। शतऽसाः। सम्ऽसहस्रम्। उत्। अग्नये। जनिषीष्ट। द्विऽबर्हाः। शम्। यत्। स्तोतृऽभ्यः। आपये। भवाति। द्युऽमत्। अमीवऽचातनम्। रक्षःऽहा ॥६॥
Ashtak » 5
Adhyay » 2
Varga » 11
Mantra » 6
