Mantra with Swara
प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः। अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ द्यु॑ता॒नो दैव्यो॒ अति॑थिः शुशोच ॥४॥
प्रऽप्र॑ । अ॒यम् । अ॒ग्निः । भ॒र॒तस्य॑ । शृ॒ण्वे॒ । वि । यत् । सूर्यः॑ । न । रोच॑ते । बृ॒हत् । भाः । अ॒भि । यः । पू॒रुम् । पृत॑नासु । त॒स्थौ । द्यु॒ता॒नः । दैव्यः॑ । अति॑थिः । शु॒शो॒च॒ ॥
Mantra without Swara
प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्यो न रोचते बृहद्भाः। अभि यः पूरुं पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच ॥
प्रऽप्र। अयम्। अग्निः। भरतस्य। शृण्वे। वि। यत्। सूर्यः। न। रोचते। बृहत्। भाः। अभि। यः। पूरुम्। पृतनासु। तस्थौ। द्युतानः। दैव्यः। अतिथिः। शुशोच ॥४॥
Ashtak » 5
Adhyay » 2
Varga » 11
Mantra » 4
