Mantra with Swara
यो दे॒ह्यो॒३॒॑अन॑मयद्वध॒स्नैर्यो अ॒र्यप॑त्नीरु॒षस॑श्च॒कार॑। स नि॒रुध्या॒ नहु॑षो य॒ह्वो अ॒ग्निर्विश॑श्चक्रे बलि॒हृतः॒ सहो॑भिः ॥५॥
यः । दे॒ह्यः॑ । अन॑मयत् । व॒ध॒ऽस्नैः । यः । अ॒र्यऽप॑त्नीः । उ॒षसः॑ । च॒कार॑ । सः । नि॒ऽरुध्य॑ । नहु॑षः । य॒ह्वः । अ॒ग्निः । विशः॑ । च॒क्रे॒ । ब॒लि॒ऽहृतः॑ । सहः॑ऽभिः ॥
Mantra without Swara
यो देह्यो३अनमयद्वधस्नैर्यो अर्यपत्नीरुषसश्चकार। स निरुध्या नहुषो यह्वो अग्निर्विशश्चक्रे बलिहृतः सहोभिः ॥
यः। देह्यः। अनमयत्। वधऽस्नैः। यः। अर्यऽपत्नीः। उषसः। चकार। सः। निऽरुध्य। नहुषः। यह्वः। अग्निः। विशः। चक्रे। बलिऽहृतः। सहःऽभिः ॥५॥
Ashtak » 5
Adhyay » 2
Varga » 9
Mantra » 5
