Mantra with Swara
द॒धि॒क्रावा॑णं बुबुधा॒नो अ॒ग्निमुप॑ ब्रुव उ॒षसं॒ सूर्यं॒ गाम्। ब्र॒ध्नं मं॑श्च॒तोर्वरु॑णस्य ब॒भ्रुं ते विश्वा॒स्मद्दु॑रि॒ता या॑वयन्तु ॥३॥
द॒धि॒ऽक्रावा॑णम् । बु॒बु॒धा॒नः । अ॒ग्निम् । उप॑ । ब्रु॒वे॒ । उ॒षस॑म् । सूर्य॑म् । गाम् । ब्र॒ध्नम् । मँ॒ंश्च॒तोः । वरु॑णस्य । ब॒भ्रुम् । ते । विश्वा॑ । अ॒स्मत् । दुः॒ऽइ॒ता । य॒व॒य॒न्तु॒ ॥
Mantra without Swara
दधिक्रावाणं बुबुधानो अग्निमुप ब्रुव उषसं सूर्यं गाम्। ब्रध्नं मंश्चतोर्वरुणस्य बभ्रुं ते विश्वास्मद्दुरिता यावयन्तु ॥
दधिऽक्रावाणम्। बुबुधानः। अग्निम्। उप। ब्रुवे। उषसम्। सूर्यम्। गाम्। ब्रध्नम्। मँश्चतोः। वरुणस्य। बभ्रुम्। ते। विश्वा। अस्मत्। दुःऽइता। यवयन्तु ॥३॥
Ashtak » 5
Adhyay » 4
Varga » 11
Mantra » 3
