Mantra with Swara
द॒धि॒क्रां वः॑ प्रथ॒मम॒श्विनो॒षस॑म॒ग्निं समि॑द्धं॒ भग॑मू॒तये॑ हुवे। इन्द्रं॒ विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पति॑मादि॒त्यान्द्यावा॑पृथि॒वी अ॒पः स्वः॑ ॥१॥
द॒धि॒ऽक्राम् । वः॒ । प्र॒थ॒मम् । अ॒श्विना॑ । उ॒षस॑म् । अ॒ग्निम् । सम्ऽइ॑द्धम् । भग॑म् । ऊ॒तये॑ । हु॒वे॒ । इन्द्र॑म् । विष्णु॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । आ॒दि॒त्यान् । द्यावा॑पृथि॒वी इति॑ । अ॒पः । स्वः॑ ॥
Mantra without Swara
दधिक्रां वः प्रथममश्विनोषसमग्निं समिद्धं भगमूतये हुवे। इन्द्रं विष्णुं पूषणं ब्रह्मणस्पतिमादित्यान्द्यावापृथिवी अपः स्वः ॥
दधिऽक्राम्। वः। प्रथमम्। अश्विना। उषसम्। अग्निम्। सम्ऽइद्धम्। भगम्। ऊतये। हुवे। इन्द्रम्। विष्णुम्। पूषणम्। ब्रह्मणः। पतिम्। आदित्यान्। द्यावापृथिवी इति। अपः। स्वः ॥१॥
Ashtak » 5
Adhyay » 4
Varga » 11
Mantra » 1
