Mantra with Swara
भग॑ ए॒व भग॑वाँ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम। तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीति॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ॥५॥
भगः॑ । ए॒व । भग॑ऽवान् । अ॒स्तु॒ । दे॒वाः॒ । तेन॑ । व॒यम् । भग॑ऽवन्तः । स्या॒म॒ । तम् । त्वा॒ । भ॒ग॒ । सर्वः॑ । इत् । जो॒ह॒वी॒ति॒ । सः । नः॒ । भ॒ग॒ । पु॒रः॒ऽए॒ता । भ॒व॒ । इ॒ह ॥
Mantra without Swara
भग एव भगवाँ अस्तु देवास्तेन वयं भगवन्तः स्याम। तं त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह ॥
भगः। एव। भगऽवान्। अस्तु। देवाः। तेन। वयम्। भगऽवन्तः। स्याम। तम्। त्वा। भग। सर्वः। इत्। जोहवीति। सः। नः। भग। पुरःऽएता। भव। इह ॥५॥
Ashtak » 5
Adhyay » 4
Varga » 8
Mantra » 5
