Mantra with Swara
अ॒स्य दे॒वस्य॑ मी॒ळ्हुषो॑ व॒या विष्णो॑रे॒षस्य॑ प्रभृ॒थे ह॒विर्भिः॑। वि॒दे हि रु॒द्रो रु॒द्रियं॑ महि॒त्वं या॑सि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् ॥५॥
अ॒स्य । दे॒वस्य॑ । मी॒ळ्हुषः॑ । व॒याः । विष्णोः॑ । ए॒षस्य॑ । प्र॒ऽभृ॒थे । ह॒विःऽभिः॑ । वि॒दे । हि । रु॒द्रः । रु॒द्रिय॑म् । म॒हि॒ऽत्वम् । या॒सि॒ष्टम् । व॒र्तिः । अ॒श्वि॒नौ॒ । इरा॑ऽवत् ॥
Mantra without Swara
अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः। विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ॥
अस्य। देवस्य। मीळ्हुषः। वयाः। विष्णोः। एषस्य। प्रऽभृथे। हविःऽभिः। विदे। हि। रुद्रः। रुद्रियम्। महिऽत्वम्। यासिष्टम्। वर्तिः। अश्विनौ। इराऽवत् ॥५॥
Ashtak » 5
Adhyay » 4
Varga » 7
Mantra » 5
