Mantra with Swara
अ॒यं हि ने॒ता वरु॑ण ऋ॒तस्य॑ मि॒त्रो राजा॑नो अर्य॒मापो॒ धुः। सु॒हवा॑ दे॒व्यदि॑तिरन॒र्वा ते नो॒ अंहो॒ अति॑ पर्ष॒न्नरि॑ष्टान् ॥४॥
अ॒यम् । हि । ने॒ता । वरु॑णः । ऋ॒तस्य॑ । मि॒त्रः । राजा॑नः । अ॒र्य॒मा । अपः॑ । धुरिति॒ धुः । सु॒ऽहवा॑ । दे॒वी । अदि॑तिः । अ॒न॒र्वा । ते । नः॒ । अंहः॑ । अति॑ । प॒र्ष॒न् । अरि॑ष्टान् ॥
Mantra without Swara
अयं हि नेता वरुण ऋतस्य मित्रो राजानो अर्यमापो धुः। सुहवा देव्यदितिरनर्वा ते नो अंहो अति पर्षन्नरिष्टान् ॥
अयम्। हि। नेता। वरुणः। ऋतस्य। मित्रः। राजानः। अर्यमा। अपः। धुरिति धुः। सुऽहवा। देवी। अदितिः। अनर्वा। ते। नः। अंहः। अति। पर्षन्। अरिष्टान् ॥४॥
Ashtak » 5
Adhyay » 4
Varga » 7
Mantra » 4
