Mantra with Swara
सेदु॒ग्रो अ॑स्तु मरुतः॒ स शु॒ष्मी यं मर्त्यं॑ पृषदश्वा॒ अवा॑थ। उ॒तेम॒ग्निः सर॑स्वती जु॒नन्ति॒ न तस्य॑ रा॒यः प॑र्ये॒तास्ति॑ ॥३॥
सः । इत् । उ॒ग्रः । अ॒स्तु॒ । म॒रु॒तः॒ । सः । शु॒ष्मी । यम् । मर्त्य॑म् । पृ॒ष॒त्ऽअ॒श्वाः॒ । अवा॑थ । उ॒त । ई॒म् । अ॒ग्निः । सर॑स्वती । जु॒नन्ति॑ । न । तस्य॑ । रा॒यः । प॒रि॒ऽए॒ता । अ॒स्ति॒ ॥
Mantra without Swara
सेदुग्रो अस्तु मरुतः स शुष्मी यं मर्त्यं पृषदश्वा अवाथ। उतेमग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति ॥
सः। इत्। उग्रः। अस्तु। मरुतः। सः। शुष्मी। यम्। मर्त्यम्। पृषत्ऽअश्वाः। अवाथ। उत। ईम्। अग्निः। सरस्वती। जुनन्ति। न। तस्य। रायः। परिऽएता। अस्ति ॥३॥
Ashtak » 5
Adhyay » 4
Varga » 7
Mantra » 3
