Mantra with Swara
र॒रे ह॒व्यं म॒तिभि॑र्य॒ज्ञिया॑नां॒ नक्ष॒त्कामं॒ मर्त्या॑ना॒मसि॑न्वन्। धाता॑ र॒यिम॑विद॒स्यं स॑दा॒सां स॑क्षी॒महि॒ युज्ये॑भि॒र्नु दे॒वैः ॥६॥
र॒रे । ह॒व्यम् । म॒तिऽभिः॑ । य॒ज्ञिया॑नाम् । नक्ष॑त् । काम॑म् । मर्त्या॑नाम् । असि॑न्वन् । धाता॑ । र॒यिम् । अ॒वि॒ऽद॒स्यम् । स॒दा॒ऽसाम् । स॒क्षी॒महि॑ । युज्ये॑भिः । नु । दे॒वैः ॥
Mantra without Swara
ररे हव्यं मतिभिर्यज्ञियानां नक्षत्कामं मर्त्यानामसिन्वन्। धाता रयिमविदस्यं सदासां सक्षीमहि युज्येभिर्नु देवैः ॥
ररे। हव्यम्। मतिऽभिः। यज्ञियानाम्। नक्षत्। कामम्। मर्त्यानाम्। असिन्वन्। धाता। रयिम्। अविऽदस्यम्। सदाऽसाम्। सक्षीमहि। युज्येभिः। नु। देवैः ॥६॥
Ashtak » 5
Adhyay » 4
Varga » 6
Mantra » 6
