Mantra with Swara
आग्ने॒ गिरो॑ दि॒व आ पृ॑थि॒व्या मि॒त्रं व॑ह॒ वरु॑ण॒मिन्द्र॑म॒ग्निम्। आर्य॒मण॒मदि॑तिं॒ विष्णु॑मेषां॒ सर॑स्वती म॒रुतो॑ मादयन्ताम् ॥५॥
आ । अ॒ग्ने॒ । गिरः॑ । दि॒वः । आ । पृ॒थि॒व्याः । मि॒त्रम् । व॒ह॒ । वरु॑णम् । इन्द्र॑म् । अ॒ग्निम् । आ । अ॒र्य॒मण॑म् । अदि॑तिम् । विष्णु॑म् । ए॒षा॒म् । सर॑स्वती । म॒रुतः॑ । मा॒द॒य॒न्ता॒म् ॥
Mantra without Swara
आग्ने गिरो दिव आ पृथिव्या मित्रं वह वरुणमिन्द्रमग्निम्। आर्यमणमदितिं विष्णुमेषां सरस्वती मरुतो मादयन्ताम् ॥
आ। अग्ने। गिरः। दिवः। आ। पृथिव्याः। मित्रम्। वह। वरुणम्। इन्द्रम्। अग्निम्। आ। अर्यमणम्। अदितिम्। विष्णुम्। एषाम्। सरस्वती। मरुतः। मादयन्ताम् ॥५॥
Ashtak » 5
Adhyay » 4
Varga » 6
Mantra » 5
