Mantra 1
उदु॒ ष्य दे॒वः स॑वि॒ता य॑याम हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत्। नू॒नं भगो॒ हव्यो॒ मानु॑षेभि॒र्वि यो रत्ना॑ पुरू॒वसु॒र्दधा॑ति ॥१॥
उत् । ऊँ॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । य॒या॒म॒ । हि॒र॒ण्ययी॑म् । अ॒मति॑म् । याम् । अशि॑श्रेत् । नू॒नम् । भगः॑ । हव्यः॑ । मानु॑षेभिः । वि । यः । रत्ना॑ । पु॒रु॒ऽवसुः॑ । दधा॑ति ॥
Mantra 2
उदु॑ तिष्ठ सवितः श्रु॒ध्य१॒॑स्य हिर॑ण्यपाणे॒ प्रभृ॑तावृ॒तस्य॑। व्यु१॒॑र्वीं पृ॒थ्वीम॒मतिं॑ सृजा॒न आ नृभ्यो॑ मर्त॒भोज॑नं सुवा॒नः ॥२॥
उत् । ऊँ॒ इति॑ । ति॒ष्ठ॒ । स॒वि॒त॒रिति॑ । श्रु॒धि॒ । अ॒स्य । हिर॑ण्यऽपाणे । प्रऽभृ॑तौ । ऋ॒तस्य॑ । वि । उ॒र्वीम् । पृ॒थ्वीम् । अ॒मति॑म् । सृ॒जा॒नः । आ । नृऽभ्यः॑ । म॒र्त॒ऽभोज॑नम् । सु॒वा॒नः ॥
Mantra 3
अपि॑ ष्टु॒तः स॑वि॒ता दे॒वो अ॑स्तु॒ यमा चि॒द्विश्वे॒ वस॑वो गृ॒णन्ति॑। स नः॒ स्तोमा॑न्नम॒स्य१॒॑श्चनो॑ धा॒द्विश्वे॑भिः पातु पा॒युभि॒र्नि सू॒रीन् ॥३॥
अपि॑ । स्तु॒तः । स॒वि॒ता । दे॒वः । अ॒स्तु॒ । यम् । आ । चि॒त् । विश्वे॑ । वस॑वः । गृ॒णन्ति॑ । सः । नः॒ । स्तोमा॑न् । न॒म॒स्यः॑ । चनः॑ । धा॒त् । विश्वे॑भिः । पा॒तु॒ । पा॒युऽभिः॑ । नि । सू॒रीन् ॥
Mantra 4
अ॒भि यं दे॒व्यदि॑तिर्गृ॒णाति॑ स॒वं दे॒वस्य॑ सवि॒तुर्जु॑षा॒णा। अ॒भि स॒म्राजो॒ वरु॑णो गृणन्त्य॒भि मि॒त्रासो॑ अर्य॒मा स॒जोषाः॑ ॥४॥
अ॒भि । यम् । दे॒वी । अदि॑तिः । गृ॒णाति॑ । स॒वम् । दे॒वस्य॑ । स॒वि॒तुः । जु॒षा॒णा । अ॒भि । स॒म्ऽराजः॑ । वरु॑णः । गृ॒ण॒न्ति॒ । अ॒भि । मि॒त्रासः॑ । अ॒र्य॒मा । स॒ऽजोषाः॑ ॥
Mantra 5
अ॒भि ये मि॒थो व॒नुषः॒ सप॑न्ते रा॒तिं दि॒वो रा॑ति॒षाचः॑ पृथि॒व्याः। अहि॑र्बु॒ध्न्य॑ उ॒त नः॑ शृणोतु॒ वरू॒त्र्येक॑धेनुभि॒र्नि पा॑तु ॥५॥
अ॒भि । ये । मि॒थः । व॒नुषः॑ । सप॑न्ते । रा॒तिम् दि॒वः । रा॒ति॒ऽसाचः॑ । पृ॒थि॒व्याः । अहिः॑ । बु॒ध्न्यः॑ । उ॒त । नः॒ । शृ॒णो॒तु॒ । वरू॑त्री । एक॑धेनुऽभिः । नि । पा॒तु॒ ॥
Mantra 6
अनु॒ तन्नो॒ जास्पति॑र्मंसीष्ट॒ रत्नं॑ दे॒वस्य॑ सवि॒तुरि॑या॒नः। भग॑मु॒ग्रोऽव॑से॒ जोह॑वीति॒ भग॒मनु॑ग्रो॒ अध॑ याति॒ रत्न॑म् ॥६॥
अनु॑ । तत् । नः॒ । जाःऽपतिः॑ । मं॒सी॒ष्ट॒ । रत्न॑म् । दे॒वस्य॑ । स॒वि॒तुः । इ॒या॒नः । भग॑म् । उ॒ग्रः । अव॑से । जोह॑वीति । भग॑म् । अनु॑ग्रः । अध॑ । या॒ति॒ । रत्न॑म् ॥
Mantra 7
शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः। ज॒म्भय॒न्तोऽहिं॒ वृकं॒ रक्षां॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥७॥
शम् । नः॒ । भ॒व॒न्तु॒ । वा॒जिनः॑ । हवे॑षु । दे॒वऽता॑ता । मि॒तऽद्र॑वः । सु॒ऽअ॒र्काः । ज॒म्भय॑न्तः । अहि॑म् । वृक॑म् । रक्षां॑सि । सऽने॑मि । अ॒स्मत् । यु॒य॒व॒न् । अमी॑वाः ॥
Mantra 8
वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः। अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ॥८॥
वाजे॑ऽवाजे । अ॒व॒त॒ । वा॒जि॒नः॒ । नः॒ । धने॑षु । वि॒प्राः॒ । अ॒मृ॒ताः॒ । ऋ॒त॒ऽज्ञाः॒ । अ॒स्य । मध्वः॑ । पि॒ब॒त॒ । मा॒दय॑ध्वम् । तृ॒प्ताः । या॒त॒ । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ ॥