Mantra 1
श्वि॒त्यञ्चो॑ मा दक्षिण॒तस्क॑पर्दा धियंजि॒न्वासो॑ अ॒भि हि प्र॑म॒न्दुः। उ॒त्तिष्ठ॑न्वोचे॒ परि॑ ब॒र्हिषो॒ नॄन्न मे॑ दू॒रादवि॑तवे॒ वसि॑ष्ठाः ॥१॥
श्वि॒त्यञ्चः॑ । मा । द॒क्षि॒ण॒तःऽक॑पर्दाः । धि॒य॒म्ऽजि॒न्वासः॑ । अ॒भि । हि । प्र॒ऽम॒न्दुः । उ॒त्ऽतिष्ठ॑न् । वो॒चे॒ । परि॑ । ब॒र्हिषः॑ । नॄन् । न । मे॒ । दू॒रात् । अवि॑तवे । वसि॑ष्ठाः ॥
Mantra 2
दू॒रादिन्द्र॑मनय॒न्ना सु॒तेन॑ ति॒रो वै॑श॒न्तमति॒ पान्त॑मु॒ग्रम्। पाश॑द्युम्नस्य वाय॒तस्य॒ सोमा॑त्सु॒तादिन्द्रो॑ऽवृणीता॒ वसि॑ष्ठान् ॥२॥
दू॒रात् । इन्द्र॑म् । अ॒न॒य॒न् । आ । सु॒तेन॑ । ति॒रः । वै॒श॒न्तम् । अति॑ । पान्त॑म् । उ॒ग्रम् । पाश॑ऽद्युम्नस्य । वा॒य॒तस्य॑ । सोमा॑त् । सु॒तात् । इन्द्रः॑ । अ॒वृ॒णी॒त॒ । वसि॑ष्ठान् ॥
Mantra 3
ए॒वेन्नु कं॒ सिन्धु॑मेभिस्ततारे॒वेन्नु कं॑ भे॒दमे॑भिर्जघान। ए॒वेन्नु कं॑ दाशरा॒ज्ञे सु॒दासं॒ प्राव॒दिन्द्रो॒ ब्रह्म॑णा वो वसिष्ठाः ॥३॥
ए॒व । इत् । नु । क॒म् । सिन्धु॑म् ए॒भिः॒ । त॒ता॒र॒ । ए॒व । इत् । नु । क॒म् । भे॒दम् । ए॒भिः॒ । ज॒घा॒न॒ । ए॒व । इत् । नु । क॒म् । दा॒श॒ऽरा॒ज्ञे । सु॒ऽदास॑म् । प्र । आ॒व॒त् । इन्द्रः॑ । ब्रह्म॑णा । वः॒ । व॒सि॒ष्ठाः॒ ॥
Mantra 4
जुष्टी॑ नरो॒ ब्रह्म॑णा वः पितॄ॒णामक्ष॑मव्ययं॒ न किला॑ रिषाथ। यच्छक्व॑रीषु बृह॒ता रवे॒णेन्द्रे॒ शुष्म॒मद॑धाता वसिष्ठाः ॥४॥
जुष्टी॑ । न॒रः॒ । ब्रह्म॑णा । वः॒ । पि॒तॄ॒णाम् । अक्ष॑म् । अ॒व्य॒य॒म् । न । किल॑ । रि॒षा॒थ॒ । यत् । शक्व॑रीषु । बृ॒ह॒ता । रवे॑ण । इन्द्रे॑ । शुष्म॑म् । अद॑धात । व॒सि॒ष्ठाः॒ ॥
Mantra 5
उद्द्यामि॒वेत्तृ॒ष्णजो॑ नाथि॒तासोऽदी॑धयुर्दाशरा॒ज्ञे वृ॒तासः॑। वसि॑ष्ठस्य स्तुव॒त इन्द्रो॑ अश्रोदु॒रुं तृत्सु॑भ्यो अकृणोदु लो॒कम् ॥५॥
उत् । द्याम्ऽइ॑व । इत् । तृ॒ष्णऽजः॑ । ना॒थि॒तासः॑ । अदी॑धयुः । दा॒श॒ऽरा॒ज्ञे । वृ॒तासः॑ । वसि॑ष्ठस्य । स्तु॒व॒तः । इन्द्रः॑ । अ॒श्रो॒त् । उ॒रुम् । तृत्सु॑ऽभ्यः । अ॒कृ॒णो॒त् । ऊँ॒ इति॑ । लो॒कम् ॥
Mantra 6
द॒ण्डाइ॒वेद्गो॒अज॑नास आस॒न्परि॑च्छिन्ना भर॒ता अ॑र्भ॒कासः॑। अभ॑वच्च पुरए॒ता वसि॑ष्ठ॒ आदित्तृत्सू॑नां॒ विशो॑ अप्रथन्त ॥६॥
द॒ण्डाऽइ॑व । इत् । गो॒ऽअज॑नासः । आ॒स॒न् । परि॑ऽच्छिन्नाः । भ॒र॒ताः । अ॒र्भ॒कासः॑ । अभ॑वत् । च॒ । पु॒रः॒ऽए॒ता । वसि॑ष्ठः । आत् । इत् । तृत्सू॑नाम् । विशः॑ । अ॒प्र॒थ॒न्त॒ ॥
Mantra 7
त्रयः॑ कृण्वन्ति॒ भुव॑नेषु॒ रेत॑स्ति॒स्रः प्र॒जा आर्या॒ ज्योति॑रग्राः। त्रयो॑ घ॒र्मास॑ उ॒षसं॑ सचन्ते॒ सर्वाँ॒ इत्ताँ अनु॑ विदु॒र्वसि॑ष्ठाः ॥७॥
त्रयः॑ । कृ॒ण्व॒न्ति॒ । भुव॑नेषु । रेतः॑ । ति॒स्रः । प्र॒ऽजाः । आर्याः॑ । ज्योतिः॑ऽअग्राः । त्रयः॑ । घ॒र्मासः॑ । उ॒षस॑म् । स॒च॒न्ते॒ । सर्वा॑न् । इत् । तान् । अनु॑ । वि॒दुः॒ । वसि॑ष्ठाः ॥
Mantra 8
सूर्य॑स्येव व॒क्षथो॒ ज्योति॑रेषां समु॒द्रस्ये॑व महि॒मा ग॑भी॒रः। वात॑स्येव प्रज॒वो नान्येन॒ स्तोमो॑ वसिष्ठा॒ अन्वे॑तवे वः ॥८॥
सूर्य॑स्यऽइव । व॒क्षथः॑ । ज्योतिः॑ । ए॒षा॒म् । स॒मु॒द्रस्य॑ऽइव । म॒हि॒मा । ग॒भी॒रः । वात॑स्यऽइव । प्र॒ऽज॒वः । न । अ॒न्येन॑ । स्तोमः॑ । व॒सि॒ष्ठाः॒ । अनु॑ऽएतवे । वः॒ ॥
Mantra 9
त इन्नि॒ण्यं हृद॑यस्य प्रके॒तैः स॒हस्र॑वल्शम॒भि सं च॑रन्ति। य॒मेन॑ त॒तं प॑रि॒धिं वय॑न्तोऽप्स॒रस॒ उप॑ सेदु॒र्वसि॑ष्ठाः ॥९॥
ते । इत् । नि॒ण्यम् । हृद॑यस्य । प्र॒ऽके॒तैः । स॒हस्र॑ऽवल्शम् । अ॒भि । सम् । च॒र॒न्ति॒ । य॒मेन॑ । त॒तम् । प॒रि॒ऽधिम् । वय॑न्तः । अ॒प्स॒रसः॑ । उप॑ । से॒दुः॒ । वसि॑ष्ठाः ॥
Mantra 10
वि॒द्युतो॒ ज्योतिः॒ परि॑ सं॒जिहा॑नं मि॒त्रावरु॑णा॒ यदप॑श्यतां त्वा। तत्ते॒ जन्मो॒तैकं॑ वसिष्ठा॒गस्त्यो॒ यत्त्वा॑ वि॒श आ॑ज॒भार॑ ॥१०॥
वि॒ऽद्युतः॑ । ज्योतिः॑ । परि॑ । स॒म्ऽजिहा॑नम् । मि॒त्रावरु॑णा । यत् । अप॑श्यताम् । त्वा॒ । तत् । ते॒ । जन्म॑ । उ॒त । एक॑म् । व॒सि॒ष्ठ॒ । अ॒गस्त्यः॑ । यत् । त्वा॒ । वि॒शः । आ॒ऽज॒भार॑ ॥
Mantra 11
उ॒तासि॑ मैत्रावरु॒णो व॑सिष्ठो॒र्वश्या॑ ब्रह्म॒न्मन॒सोऽधि॑ जा॒तः। द्र॒प्सं स्क॒न्नं ब्रह्म॑णा॒ दैव्ये॑न॒ विश्वे॑ दे॒वाः पुष्क॑रे त्वाददन्त ॥११॥
उ॒त । अ॒सि॒ । मै॒त्रा॒व॒रु॒णः । व॒सि॒ष्ठ॒ । उ॒र्वश्या॑ । ब्र॒ह्म॒न् । मन॑सः । अधि॑ । जा॒तः । द्र॒प्सम् । स्क॒न्नम् । ब्रह्म॑णा । दैव्ये॑न । विश्वे॑ । दे॒वाः । पुष्क॑रे । त्वा॒ । अ॒द॒द॒न्त॒ ॥
Mantra 12
स प्र॑के॒त उ॒भय॑स्य प्रवि॒द्वान्त्स॒हस्र॑दान उ॒त वा॒ सदा॑नः। यमेन॑ त॒तं प॑रि॒धिं व॑यि॒ष्यन्न॑प्स॒रसः॒ परि॑ जज्ञे॒ वसि॑ष्ठः ॥१२॥
सः । प्र॒ऽके॒तः । उ॒भय॑स्य । प्र॒ऽवि॒द्वान् । स॒हस्र॑ऽदानः । उ॒त । वा॒ । सऽदा॑नः । यमेन॑ । त॒तम् । प॒रि॒ऽधिम् । व॒यि॒ष्यन् । अ॒प्स॒रसः॑ । परि॑ । ज॒ज्ञे॒ । वसि॑ष्ठः ॥
Mantra 13
स॒त्रे ह॑ जा॒तावि॑षि॒ता नमो॑भिः कु॒म्भे रेतः॑ सिषिचतुः समा॒नम्। ततो॑ ह॒ मान॒ उदि॑याय॒ मध्या॒त्ततो॑ जा॒तमृषि॑माहु॒र्वसि॑ष्ठम् ॥१३॥
स॒त्रे । ह॒ । जा॒तौ । इ॒षि॒ता । नमः॑ऽभिः । कु॒म्भे । रेतः॑ । सि॒सि॒च॒तुः॒ । स॒मा॒नम् । ततः॑ । ह॒ । मानः॑ । उत् । इ॒या॒य॒ । मद्या॑त् । ततः॑ । जा॒तम् । ऋषि॑म् । आ॒हुः॒ । वसि॑ष्ठम् ॥
Mantra 14
उ॒क्थ॒भृतं॑ साम॒भृतं॑ बिभर्ति॒ ग्रावा॑णं॒ बिभ्र॒त्प्र व॑दा॒त्यग्रे॑। उपै॑नमाध्वं सुमन॒स्यमा॑ना॒ आ वो॑ गच्छाति प्रतृदो॒ वसि॑ष्ठः ॥१४॥
उ॒क्थ॒ऽभृत॑म् । सा॒म॒ऽभृत॑म् । बि॒भ॒र्ति॒ । ग्रावा॑णम् । बिभ्र॑त् । प्र । व॒दा॒ति॒ । अग्रे॑ । उप॑ । ए॒न॒म् । आ॒ध्व॒म् । सु॒ऽम॒न॒स्यमा॑नाः । आ । वः॒ । ग॒च्छा॒ति॒ । प्र॒ऽतृ॒दः॒ । वसि॑ष्ठः ॥