Mantra 1
प्र व॒ इन्द्रा॑य॒ माद॑नं॒ हर्य॑श्वाय गायत। सखा॑यः सोम॒पाव्ने॑ ॥१॥
प्र । वः॒ । इन्द्रा॑य । माद॑नम् । हरि॑ऽअश्वाय । गा॒य॒त॒ । सखा॑यः । सो॒म॒ऽपाव्ने॑ ॥
Mantra 2
शंसेदु॒क्थं सु॒दान॑व उ॒त द्यु॒क्षं यथा॒ नरः॑। च॒कृ॒मा स॒त्यरा॑धसे ॥२॥
शंस॑ । इत् । उ॒क्थम् । सु॒ऽदान॑वे । उ॒त । द्यु॒क्षम् । यथा॑ । नरः॑ । च॒कृ॒म । स॒त्यऽरा॑धसे ॥
Mantra 3
त्वं न॑ इन्द्र वाज॒युस्त्वं ग॒व्युः श॑तक्रतो। त्वं हि॑रण्य॒युर्व॑सो ॥३॥
त्वम् । नः॒ । इ॒न्द्र॒ । वा॒ज॒ऽयुः । त्वम् । ग॒व्युः । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । त्वम् । हि॒र॒ण्य॒ऽयुः । व॒सो॒ इति॑ ॥
Mantra 4
व॒यमि॑न्द्र त्वा॒यवो॒ऽभि प्र णो॑नुमो वृषन्। वि॒द्धि त्व१॒॑स्य नो॑ वसो ॥४॥
व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयवः॑ । अ॒भि । प्र । नो॒नु॒मः॒ । वृ॒ष॒न् । वि॒द्धि । तु । अ॒स्य । नः॒ । व॒सो॒ इति॑ ॥
Mantra 5
मा नो॑ नि॒दे च॒ वक्त॑वे॒ऽर्यो र॑न्धी॒ररा॑व्णे। त्वे अपि॒ क्रतु॒र्मम॑ ॥५॥
मा । नः॒ । नि॒दे । च॒ । वक्त॑वे । अ॒र्यः । र॒न्धीः॒ । अरा॑व्णे । त्वे इति॑ । अपि॑ । क्रतुः॑ । मम॑ ॥
Mantra 6
त्वं वर्मा॑सि स॒प्रथः॑ पुरोयो॒धश्च॑ वृत्रहन्। त्वया॒ प्रति॑ ब्रुवे यु॒जा ॥६॥
त्वम् । वर्म॑ । अ॒सि॒ । स॒ऽप्रथः॑ । पु॒रः॒ऽयो॒धः । च॒ । वृ॒त्र॒ऽह॒न् । त्वया॑ । प्रति॑ । ब्रु॒वे॒ । यु॒जा ॥
Mantra 7
म॒हाँ उ॒तासि॒ यस्य॒ तेऽनु॑ स्व॒धाव॑री॒ सहः॑। म॒म्नाते॑ इन्द्र॒ रोद॑सी ॥७॥
म॒हान् । उ॒त । अ॒सि॒ । यस्य॑ । ते । अनु॑ । स्व॒धाव॑री॒ इति॑ स्व॒धाऽव॑री । सहः॑ । म॒म्नाते॒ इति॑ । इ॒न्द्र॒ । रोद॑सी॒ इति॑ ॥
Mantra 8
तं त्वा॑ म॒रुत्व॑ती॒ परि॒ भुव॒द्वाणी॑ स॒याव॑री। नक्ष॑माणा स॒ह द्युभिः॑ ॥८॥
तम् । त्वा॒ । म॒रुत्व॑ती । परि॑ । भुव॑त् । वाणी॑ । स॒ऽयाव॑री । नक्ष॑माणा । स॒ह । द्युऽभिः॑ ॥
Mantra 9
ऊ॒र्ध्वास॒स्त्वान्विन्द॑वो॒ भुव॑न्द॒स्ममुप॒ द्यवि॑। सं ते॑ नमन्त कृ॒ष्टयः॑ ॥९॥
ऊ॒र्ध्वासः॑ । त्वा॒ । अनु॑ । इन्द॑वः । भुव॑न् । द॒स्मम् । उप॑ । द्यवि॑ । सम् । ते॒ । न॒म॒न्त॒ । कृ॒ष्टयः॑ ॥
Mantra 10
प्र वो॑ म॒हे म॑हि॒वृधे॑ भरध्वं॒ प्रचे॑तसे॒ प्र सु॑म॒तिं कृ॑णुध्वम्। विशः॑ पू॒र्वीः प्र च॑रा चर्षणि॒प्राः ॥१०॥
प्र । वः॒ । म॒हे । म॒हि॒ऽवृधे॑ । भ॒र॒ध्व॒म् । प्रऽचे॑तसे । प्र । सु॒ऽम॒तिम् । कृ॒णु॒ध्व॒म् । विशः॑ । पू॒र्वीः । प्र । च॒र॒ । च॒र्ष॒णि॒ऽप्राः ॥
Mantra 11
उ॒रु॒व्यच॑से म॒हिने॑ सुवृ॒क्तिमिन्द्रा॑य॒ ब्रह्म॑ जनयन्त॒ विप्राः॑। तस्य॑ व्र॒तानि॒ न मि॑नन्ति॒ धीराः॑ ॥११॥
उ॒रु॒ऽव्यच॑से । म॒हिने॑ । सु॒ऽवृ॒क्तिम् । इन्द्रा॑य । ब्रह्म॑ । ज॒न॒य॒न्त॒ । विप्राः॑ । तस्य॑ । व्र॒तानि॑ । न । मि॒न॒न्ति॒ । धीराः॑ ॥
Mantra 12
इन्द्रं॒ वाणी॒रनु॑त्तमन्युमे॒व स॒त्रा राजा॑नं दधिरे॒ सह॑ध्यै। हर्य॑श्वाय बर्हया॒ समा॒पीन् ॥१२॥
इन्द्र॑म् । वाणीः॑ । अनु॑त्तऽमन्युम् । ए॒व । स॒त्रा । राजा॑नम् । द॒धि॒रे॒ । सह॑ध्यै । हरि॑ऽअश्वाय । ब॒र्ह॒य॒ । सम् । आ॒पीन् ॥