Mantra with Swara
ए॒वा तमा॑हुरु॒त शृ॑ण्व॒ इन्द्र॒ एको॑ विभ॒क्ता त॒रणि॑र्म॒घाना॑म्। मि॒थ॒स्तुर॑ ऊ॒तयो॒ यस्य॑ पू॒र्वीर॒स्मे भ॒द्राणि॑ सश्चत प्रि॒याणि॑ ॥४॥
ए॒व । तम् । आ॒हुः॒ । उ॒त । शृ॒ण्वे॒ । इन्द्रः॑ । एकः॑ । वि॒ऽभ॒क्ता । त॒रणिः॑ । म॒घाना॑म् । मि॒थःऽतुरः॑ । ऊ॒तयः॑ । यस्य॑ । पू॒र्वीः । अ॒स्मे इति॑ । भ॒द्राणि॑ । स॒श्च॒त॒ । प्रि॒याणि॑ ॥
Mantra without Swara
एवा तमाहुरुत शृण्व इन्द्र एको विभक्ता तरणिर्मघानाम्। मिथस्तुर ऊतयो यस्य पूर्वीरस्मे भद्राणि सश्चत प्रियाणि ॥
एव। तम्। आहुः। उत। शृण्वे। इन्द्रः। एकः। विऽभक्ता। तरणिः। मघानाम्। मिथःऽतुरः। ऊतयः। यस्य। पूर्वीः। अस्मे इति। भद्राणि। सश्चत। प्रियाणि ॥४॥
Ashtak » 5
Adhyay » 3
Varga » 10
Mantra » 4
