Mantra with Swara
कुत्सा॑ ए॒ते हर्य॑श्वाय शू॒षमिन्द्रे॒ सहो॑ दे॒वजू॑तमिया॒नाः। स॒त्रा कृ॑धि सु॒हना॑ शूर वृ॒त्रा व॒यं तरु॑त्राः सनुयाम॒ वाज॑म् ॥५॥
कुत्सा॑ । ए॒ते । हर्यि॑ऽअश्वाय । शू॒षम् । इन्द्रे॑ । सहः॑ । दे॒वऽजू॑तम् । इ॒या॒नाः । स॒त्रा । कृ॒धि॒ । सु॒ऽहना॑ । शू॒र॒ । वृ॒त्रा । व॒यम् । तरु॑त्राः । स॒नु॒या॒म॒ । वाज॑म् ॥
Mantra without Swara
कुत्सा एते हर्यश्वाय शूषमिन्द्रे सहो देवजूतमियानाः। सत्रा कृधि सुहना शूर वृत्रा वयं तरुत्राः सनुयाम वाजम् ॥
कुत्सा। एते। हर्यिऽअश्वाय। शूषम्। इन्द्रे। सहः। देवऽजूतम्। इयानाः। सत्रा। कृधि। सुऽहना। शूर। वृत्रा। वयम्। तरुत्राः। सनुयाम। वाजम् ॥५॥
Ashtak » 5
Adhyay » 3
Varga » 9
Mantra » 5
