Mantra with Swara
ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य॑र्चन्त्य॒र्कैः। स नः॑ स्तु॒तो वी॒रव॑त्पातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥६॥
ए॒व । इत् । इन्द्र॑म् । वृष॑णम् । वज्र॑ऽबाहुम् । वसि॑ष्ठासः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः । सः । नः॒ । स्तु॒तः । वी॒रऽव॑त् । धातु॑ । गोऽम॑त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
Mantra without Swara
एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः। स नः स्तुतो वीरवत्पातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥
एव। इत्। इन्द्रम्। वृषणम्। वज्रऽबाहुम्। वसिष्ठासः। अभि। अर्चन्ति। अर्कैः। सः। नः। स्तुतः। वीरऽवत्। पातु। गोऽमत्। यूयम्। पात। स्वस्तिऽभिः। सदा। नः ॥६॥
Ashtak » 5
Adhyay » 3
Varga » 7
Mantra » 6
