Mantra 1
असा॑वि दे॒वं गोऋ॑जीक॒मन्धो॒ न्य॑स्मि॒न्निन्द्रो॑ ज॒नुषे॑मुवोच। बोधा॑मसि त्वा हर्यश्व य॒ज्ञैर्बोधा॑ नः॒ स्तोम॒मन्ध॑सो॒ मदे॑षु ॥१॥
असा॑वि । दे॒वम् । गोऽऋ॑जीकम् । अन्धः॑ । नि । अ॒स्मि॒न् । इन्द्रः॑ । ज॒नुषा॑ । ई॒म् । उ॒वो॒च॒ । बोधा॑मसि । त्वा॒ । ह॒रि॒ऽअ॒श्व॒ । य॒ज्ञैः । बोध॑ । नः॒ । स्तोम॑म् । अन्ध॑सः । मदे॑षु ॥
Mantra 2
प्र य॑न्ति य॒ज्ञं वि॒पय॑न्ति ब॒र्हिः सो॑म॒मादो॑ वि॒दथे॑ दु॒ध्रवा॑चः। न्यु॑ भ्रियन्ते य॒शसो॑ गृ॒भादा दू॒रउ॑पब्दो॒ वृष॑णो नृ॒षाचः॑ ॥२॥
प्र । य॒न्ति॒ । य॒ज्ञम् । वि॒पय॑न्ति । ब॒र्हिः । सो॒म॒ऽमादः॑ । वि॒दथे॑ । दु॒ध्रऽवा॑चः । नि । ऊँ॒ इति॑ । भ्रि॒य॒न्ते॒ । य॒शसः॑ । गृ॒भात् । आ । दू॒रेऽउ॑पब्दः । वृष॑णः । नृ॒ऽसाचः॑ ॥
Mantra 3
त्वमि॑न्द्र॒ स्रवि॑त॒वा अ॒पस्कः॒ परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः। त्वद्वा॑वक्रे र॒थ्यो॒३॒॑ न धेना॒ रेज॑न्ते॒ विश्वा॑ कृ॒त्रिमा॑णि भी॒षा ॥३॥
त्वम् । इ॒न्द्र॒ । स्रवि॑त॒वै । अ॒पः । क॒रिति॑ कः । परि॑ऽस्थिताः । अहि॑ना । शू॒र॒ । पू॒र्वीः । त्वत् । वा॒व॒क्रे॒ । र॒थ्यः॑ । न । धेनाः॑ । रेज॑न्ते । विश्वा॑ । कृ॒त्रिमा॑णि । भी॒षा ॥
Mantra 4
भी॒मो वि॑वे॒षायु॑धेभिरेषा॒मपां॑सि॒ विश्वा॒ नर्या॑णि वि॒द्वान्। इन्द्रः॒ पुरो॒ जर्हृ॑षाणो॒ वि दू॑धो॒द्वि वज्र॑हस्तो महि॒ना ज॑घान ॥४॥
भी॒मः । वि॒वे॒ष॒ । आयु॑धेभिः । ए॒षा॒म् । अपां॑सि । विश्वा॑ । नर्या॑णि । वि॒द्वान् । इन्द्रः॑ । पुरः॑ । जर्हृ॑षाणः । वि । दू॒धो॒त् । वि । वज्र॑ऽहस्तः । म॒हि॒ना । ज॒घा॒न॒ ॥
Mantra 5
न या॒तव॑ इन्द्र जूजुवुर्नो॒ न वन्द॑ना शविष्ठ वे॒द्याभिः॑। स श॑र्धद॒र्यो विषु॑णस्य ज॒न्तोर्मा शि॒श्नदे॑वा॒ अपि॑ गुर्ऋ॒तं नः॑ ॥५॥
न । या॒तवः॑ । इ॒न्द्र॒ । जू॒जु॒वुः॒ । नः॒ । न । वन्द॑ना । श॒वि॒ष्ठ॒ । वे॒द्याभिः॑ । सः । श॒र्ध॒त् । अ॒र्यः । विषु॑णस्य । ज॒न्तोः । मा । शि॒श्नऽदे॑वाः । अपि॑ । गुः॒ । ऋ॒तम् । नः॒ ॥
Mantra 6
अ॒भि क्रत्वे॑न्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानं॒ रजां॑सि। स्वेना॒ हि वृ॒त्रं शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तं॑ विविदद्यु॒धा ते॑ ॥६॥
अ॒भि । क्रत्वा॑ । इ॒न्द्र॒ । भूः॒ । अध॑ । ज्मन् । न । ते॒ । वि॒व्य॒क् । म॒हि॒मान॑म् । रजां॑सि । स्वेन॑ । हि । वृ॒त्रम् । शव॑सा । ज॒घन्थ॑ । न । शत्रुः॑ । अन्त॑म् । वि॒वि॒द॒त् । यु॒धा । ते॒ ॥
Mantra 7
दे॒वाश्चि॑त्ते असु॒र्या॑य॒ पूर्वेऽनु॑ क्ष॒त्राय॑ ममिरे॒ सहां॑सि। इन्द्रो॑ म॒घानि॑ दयते वि॒षह्येन्द्रं॒ वाज॑स्य जोहुवन्त सा॒तौ ॥७॥
दे॒वाः । चि॒त् । ते॒ । अ॒सु॒र्या॑य । पूर्वे॑ । अनु॑ । क्ष॒त्राय॑ । म॒मि॒रे॒ । सहां॑सि । इन्द्रः॑ । म॒घानि॑ । द॒य॒ते॒ । वि॒ऽसह्य॑ । इन्द्र॑म् । वाज॑स्य । जो॒हु॒व॒न्त॒ । सा॒तौ ॥
Mantra 8
की॒रिश्चि॒द्धि त्वामव॑से जु॒हावेशा॑नमिन्द्र॒ सौभ॑गस्य॒ भूरेः॑। अवो॑ बभूथ शतमूते अ॒स्मे अ॑भिक्ष॒त्तुस्त्वाव॑तो वरू॒ता ॥८॥
की॒रिः । चि॒त् । हि । त्वाम् । अव॑से । जु॒हाव॑ । ईशा॑नम् । इ॒न्द्र॒ । सौभ॑गस्य । भूरेः॑ । अवः॑ । ब॒भू॒थ॒ । श॒त॒म्ऽऊ॒ते॒ । अ॒स्मे इति॑ । अ॒भि॒ऽक्ष॒त्तुः । त्वाऽव॑तः । व॒रू॒ता ॥
Mantra 9
सखा॑यस्त इन्द्र वि॒श्वह॑ स्याम नमोवृ॒धासो॑ महि॒ना त॑रुत्र। व॒न्वन्तु॑ स्मा॒ तेऽव॑सा समी॒के॒३॒॑भी॑तिम॒र्यो व॒नुषां॒ शवां॑सि ॥९॥
सखा॑यः । ते॒ । इ॒न्द्र॒ । वि॒श्वह॑ । स्या॒म॒ । न॒मः॒ऽवृ॒धासः॑ । म॒हि॒ना । त॒रु॒त्र॒ । व॒न्वन्तु॑ । स्म॒ । ते॒ । अव॑सा । स॒मी॒के । अ॒भिऽइ॑तिम् । अ॒र्यः । व॒नुषा॑म् । शवां॑सि ॥
Mantra 10
स न॑ इन्द्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नन्ति॑। वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥१०॥
सः । नः॒ । इ॒न्द्र॒ । त्वऽय॑तायै । इ॒षे । धाः॒ । त्मना॑ । च॒ । ये । म॒घऽवा॑नः । जु॒नन्ति॑ । वस्वी॑ । सु । ते॒ । ज॒रि॒त्रे । अ॒स्तु । श॒क्तिः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥