Mantra with Swara
व॒यं ते॑ अग्ने स॒मिधा॑ विधेम व॒यं दा॑शेम सुष्टु॒ती य॑जत्र। व॒यं घृ॒तेना॑ध्वरस्य होतर्व॒यं दे॑व ह॒विषा॑ भद्रशोचे ॥२॥
व॒यम् । ते॒ । अ॒ग्ने॒ । स॒म्ऽइधा॑ । वि॒धे॒म॒ । व॒यम् । दा॒शे॒म॒ । सु॒ऽस्तु॒ती । य॒ज॒त्र॒ । व॒यम् । घृ॒तेन॑ । अ॒ध्व॒र॒स्य॒ । हो॒तः॒ । व॒यम् । दे॒व॒ । ह॒विषा॑ । भ॒द्र॒ऽशो॒चे॒ ॥
Mantra without Swara
वयं ते अग्ने समिधा विधेम वयं दाशेम सुष्टुती यजत्र। वयं घृतेनाध्वरस्य होतर्वयं देव हविषा भद्रशोचे ॥
वयम्। ते। अग्ने। सम्ऽइधा। विधेम। वयम्। दाशेम। सुऽस्तुती। यजत्र। वयम्। घृतेन। अध्वरस्य। होतः। वयम्। देव। हविषा। भद्रऽशोचे ॥२॥
Ashtak » 5
Adhyay » 2
Varga » 17
Mantra » 2
