Mantra with Swara
स म॒ह्ना विश्वा॑ दुरि॒तानि॑ सा॒ह्वान॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे॑दाः। स नो॑ रक्षिषद्दुरि॒ताद॑व॒द्याद॒स्मान्गृ॑ण॒त उ॒त नो॑ म॒घोनः॑ ॥२॥
सः । म॒ह्ना । विश्वा॑ । दुः॒ऽइ॒तानि॑ । सा॒ह्वान् । अ॒ग्निः । स्त॒वे॒ । दमे॑ । आ । जा॒तऽवे॑दाः । सः । नः॒ । र॒क्षि॒ष॒त् । दुः॒ऽइ॒तात् । अ॒व॒द्या॒त् । अ॒स्मान् । गृ॒ण॒तः । उ॒त । नः॒ । म॒घोनः॑ ॥
Mantra without Swara
स मह्ना विश्वा दुरितानि साह्वानग्निः ष्टवे दम आ जातवेदाः। स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥
सः। मह्ना। विश्वा। दुःऽइतानि। साह्वान्। अग्निः। स्तवे। दमे। आ। जातऽवेदाः। सः। नः। रक्षिषत्। दुःऽइतात्। अवद्यात्। अस्मान्। गृणतः। उत। नः। मघोनः ॥२॥
Ashtak » 5
Adhyay » 2
Varga » 15
Mantra » 2
