Mantra with Swara
अग॑न्म म॒हा नम॑सा॒ यवि॑ष्ठं॒ यो दी॒दाय॒ समि॑द्धः॒ स्वे दु॑रो॒णे। चि॒त्रभा॑नुं॒ रोद॑सी अ॒न्तरु॒र्वी स्वा॑हुतं वि॒श्वतः॑ प्र॒त्यञ्च॑म् ॥१॥
अग॑न्म । म॒हा । नम॑सा । यवि॑ष्ठम् । यः । दी॒दाय॑ । सम्ऽइ॑द्धः । स्वे । दु॒रो॒णे । चि॒त्रऽभा॑नुम् । रोद॑सी॒ इति॑ । अ॒न्तः । उ॒र्वी इति॑ । सुऽआ॑हुतम् । प्र॒त्यञ्च॑म् ॥
Mantra without Swara
अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे। चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥
अगन्म। महा। नमसा। यविष्ठम्। यः। दीदाय। सम्ऽइद्धः। स्वे। दुरोणे। चित्रऽभानुम्। रोदसी इति। अन्तः। उर्वी इति। सुऽआहुतम्। विश्वतः। प्रत्यञ्चम् ॥१॥
Ashtak » 5
Adhyay » 2
Varga » 15
Mantra » 1
