Mantra with Swara
आग्ने॑ वह हवि॒रद्या॑य दे॒वानिन्द्र॑ज्येष्ठास इ॒ह मा॑दयन्ताम्। इ॒मं य॒ज्ञं दि॒वि दे॒वेषु॑ धेहि यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥५॥
आ । अ॒ग्ने॒ । व॒ह॒ । ह॒विः॒ऽअद्या॑य । दे॒वान् । इन्द्र॑ऽज्येष्ठासः । इ॒ह । मा॒द॒य॒न्ता॒म् । इ॒मम् । य॒ज्ञम् । दि॒वि । दे॒वेषु॑ । धे॒हि॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
Mantra without Swara
आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताम्। इमं यज्ञं दिवि देवेषु धेहि यूयं पात स्वस्तिभिः सदा नः ॥
आ। अग्ने। वह। हविःऽअद्याय। देवान्। इन्द्रऽज्येष्ठासः। इह। मादयन्ताम्। इमम्। यज्ञम्। दिवि। देवेषु। धेहि। यूयम्। पात। स्वस्तिऽभिः। सदा। नः ॥५॥
Ashtak » 5
Adhyay » 2
Varga » 14
Mantra » 5
