Mantra with Swara
त्वामी॑ळते अजि॒रं दू॒त्या॑य ह॒विष्म॑न्तः॒ सद॒मिन्मानु॑षासः। यस्य॑ दे॒वैरास॑दो ब॒र्हिर॒ग्नेऽहा॑न्यस्मै सु॒दिना॑ भवन्ति ॥२॥
त्वाम् । ई॒ळ॒ते॒ । अ॒जि॒रम् । दू॒त्या॑य । ह॒विष्म॑न्तः । सद॑म् । इत् । मानु॑षासः । यस्य॑ । दे॒वैः । आ । अस॑दः । ब॒र्हिः । अ॒ग्ने॒ । अहा॑नि । अ॒स्मै॒ । सु॒ऽदिना॑ । भ॒व॒न्ति॒ ॥
Mantra without Swara
त्वामीळते अजिरं दूत्याय हविष्मन्तः सदमिन्मानुषासः। यस्य देवैरासदो बर्हिरग्नेऽहान्यस्मै सुदिना भवन्ति ॥
त्वाम्। ईळते। अजिरम्। दूत्याय। हविष्मन्तः। सदम्। इत्। मानुषासः। यस्य। देवैः। आ। असदः। बर्हिः। अग्ने। अहानि। अस्मै। सुऽदिना। भवन्ति ॥२॥
Ashtak » 5
Adhyay » 2
Varga » 14
Mantra » 2
