Mantra with Swara
इन्द्रं॑ नो अग्ने॒ वसु॑भिः स॒जोषा॑ रु॒द्रं रु॒द्रेभि॒रा व॑हा बृ॒हन्त॑म्। आ॒दि॒त्येभि॒रदि॑तिं वि॒श्वज॑न्यां॒ बृह॒स्पति॒मृक्व॑भिर्वि॒श्ववा॑रम् ॥४॥
इन्द्र॑म् । नः॒ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ । रु॒द्रम् । रु॒द्रेभिः । आ । व॒ह॒ । बृ॒हन्त॑म् । आ॒दि॒त्येभिः॑ । अदि॑तिम् । वि॒श्वऽज॑न्याम् । बृह॒स्पति॑म् । ऋक्व॑ऽभिः । वि॒श्वऽवा॑रम् ॥
Mantra without Swara
इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिरा वहा बृहन्तम्। आदित्येभिरदितिं विश्वजन्यां बृहस्पतिमृक्वभिर्विश्ववारम् ॥
इन्द्रम्। नः। अग्ने। वसुऽभिः। सऽजोषाः। रुद्रम्। रुद्रेभिः। आ। वह। बृहन्तम्। आदित्येभिः। अदितिम्। विश्वऽजन्याम्। बृहस्पतिम्। ऋक्वऽभिः। विश्वऽवारम् ॥४॥
Ashtak » 5
Adhyay » 2
Varga » 13
Mantra » 4
