Mantra 1
अ॒ग्निं नरो॒ दीधि॑तिभिर॒रण्यो॒र्हस्त॑च्युती जनयन्त प्रश॒स्तम्। दू॒रे॒दृशं॑ गृ॒हप॑तिमथ॒र्युम् ॥१॥
अ॒ग्निम् । नरः॑ । दीधि॑तिऽभिः । अ॒रण्योः॑ । हस्त॑ऽच्युती । ज॒न॒य॒न्त॒ । प्र॒ऽश॒स्तम् । दू॒रे॒ऽदृश॑म् । गृ॒हऽप॑तिम् । अ॒थ॒र्युम् ॥
Mantra 2
तम॒ग्निमस्ते॒ वस॑वो॒ न्यृ॑ण्वन्त्सुप्रति॒चक्ष॒मव॑से॒ कुत॑श्चित्। द॒क्षाय्यो॒ यो दम॒ आस॒ नित्यः॑ ॥२॥
तम् । अ॒ग्निम् । अस्ते॑ । वस॑वः । नि । ऋ॒ण्व॒न् । सु॒ऽप्र॒ति॒चक्ष॑म् । अव॑से । कुतः॑ । चि॒त् । द॒क्षाय्यः॑ । यः । दमे॑ । आस॑ । नित्यः॑ ॥
Mantra 3
प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॑ यविष्ठ। त्वां शश्व॑न्त॒ उप॑ यन्ति॒ वाजाः॑ ॥३॥
प्रऽइ॑द्धः । अ॒ग्ने॒ । दी॒दि॒हि॒ । पु॒रः । नः॒ । अज॑स्रया । सू॒र्म्या॑ । य॒वि॒ष्ठ॒ । त्वाम् । शश्व॑न्तः । उप॑ । य॒न्ति॒ । वाजाः॑ ॥
Mantra 4
प्र ते अ॒ग्नयो॒ऽग्निभ्यो॒ वरं॒ निः सु॒वीरा॑सः शोशुचन्त द्यु॒मन्तः॑। यत्रा॒ नरः॑ स॒मास॑ते सुजा॒ताः ॥४॥
प्र । ते । अ॒ग्नयः॑ । अ॒ग्निऽभ्यः॑ । वर॑म् । निः । सु॒ऽवीरा॑सः । शो॒शु॒च॒न्त॒ । द्यु॒ऽमन्तः॑ । यत्र॑ । नरः॑ । स॒म्ऽआस॑ते । सु॒ऽजा॒ताः ॥
Mantra 5
दा नो॑ अग्ने धि॒या र॒यिं सु॒वीरं॑ स्वप॒त्यं स॑हस्य प्रश॒स्तम्। न यं यावा॒ तर॑ति यातु॒मावा॑न् ॥५॥
दाः । नः॒ । अ॒ग्ने॒ । धि॒या । र॒यिम् । सु॒ऽवीर॑म् । सु॒ऽअ॒प॒त्यम् । स॒ह॒स्य॒ । प्र॒ऽश॒स्तम् । न । यम् । यावा॑ । तर॑ति । या॒तु॒ऽमावा॑न् ॥
Mantra 6
उप॒ यमेति॑ युव॒तिः सु॒दक्षं॑ दो॒षा वस्तो॑र्ह॒विष्म॑ती घृ॒ताची॑। उप॒ स्वैन॑म॒रम॑तिर्वसू॒युः ॥६॥
उप॑ । यम् । एति॑ । यु॒व॒तिः । सु॒ऽदक्ष॑म् । दो॒षा । वस्तोः॑ । ह॒विष्म॑ती । घृ॒ताची॑ । उप॑ । स्वा । ए॒न॒म् । अ॒रम॑तिः । व॒सु॒ऽयुः ॥
Mantra 7
विश्वा॑ अ॒ग्नेऽप॑ द॒हारा॑ती॒र्येभि॒स्तपो॑भि॒रद॑हो॒ जरू॑थम्। प्र नि॑स्व॒रं चा॑तय॒स्वामी॑वाम् ॥७॥
विश्वाः॑ । अ॒ग्ने॒ । अप॑ । द॒ह॒ । अरा॑तीः । येभिः॑ । तपः॑ऽभिः । अद॑हः । जरू॑थम् । प्र । नि॒ऽस्व॒रम् । चा॒त॒य॒स्व॒ । अमी॑वाम् ॥
Mantra 8
आ यस्ते॑ अग्न इध॒ते अनी॑कं॒ वसि॑ष्ठ॒ शुक्र॒ दीदि॑वः॒ पाव॑क। उ॒तो न॑ ए॒भिः स्त॒वथै॑रि॒ह स्याः॑ ॥८॥
आ । यः । ते॒ । अ॒ग्ने॒ । इ॒ध॒ते । अनी॑कम् । वसि॑ष्ठ । शुक्र॑ । दीदि॑ऽवः । पाव॑क । उ॒तो इति॑ । नः॒ । ए॒भिः । स्त॒वथैः॑ । इ॒ह । स्याः॒ ॥
Mantra 9
वि ये ते॑ अग्ने भेजि॒रे अनी॑कं॒ मर्ता॒ नरः॒ पित्र्या॑सः पुरु॒त्रा। उ॒तो न॑ ए॒भिः सु॒मना॑ इ॒ह स्याः॑ ॥९॥
वि । ये । ते॒ । अ॒ग्ने॒ । भे॒जि॒रे । अनी॑कम् । मर्ताः॑ । नरः॑ । पित्र्या॑सः । पु॒रु॒ऽत्रा । उ॒तो इति॑ । नः॒ । ए॒भिः । सु॒ऽमनाः॑ । इ॒ह । स्याः॒ ॥
Mantra 10
इ॒मे नरो॑ वृत्र॒हत्ये॑षु॒ शूरा॒ विश्वा॒ अदे॑वीर॒भि स॑न्तु मा॒याः। ये मे॒ धियं॑ प॒नय॑न्त प्रश॒स्ताम् ॥१०॥
इ॒मे । नरः॑ । वृ॒त्र॒ऽहत्ये॑षु । शूराः॑ । विश्वाः॑ । अदे॑वीः । अ॒भि । स॒न्तु॒ । मा॒याः । ये । मे॒ । धिय॑म् । प॒नय॑न्त । प्र॒ऽश॒स्ताम् ॥
Mantra 11
मा शूने॑ अग्ने॒ नि ष॑दाम नृ॒णां माशेष॑सो॒ऽवीर॑ता॒ परि॑ त्वा। प्र॒जाव॑तीषु॒ दुर्या॑सु दुर्य ॥११॥
मा । शूने॑ । अ॒ग्ने॒ । नि । स॒दा॒म॒ । नृ॒णाम् । मा । अ॒शेष॑सः । अ॒वीर॑ता । परि॑ । त्वा॒ । प्र॒जाऽव॑तीषु । दुर्या॑सु । दु॒र्य॒ ॥
Mantra 12
यम॒श्वी नित्य॑मुप॒याति॑ य॒ज्ञं प्र॒जाव॑न्तं स्वप॒त्यं क्षयं॑ नः। स्वज॑न्मना॒ शेष॑सा वावृधा॒नम् ॥१२॥
यम् । अ॒श्वी । नित्य॑म् । उ॒प॒ऽयाति॑ । य॒ज्ञम् । प्र॒जाऽव॑न्तम् । सु॒ऽअ॒प॒त्यम् । क्षय॑म् । नः॒ । स्वऽज॑न्मना । शेष॑सा । व॒वृ॒धा॒नम् ॥
Mantra 13
पा॒हि नो॑ अग्ने र॒क्षसो॒ अजु॑ष्टात्पा॒हि धू॒र्तेरर॑रुषो अघा॒योः। त्वा यु॒जा पृ॑तना॒यूँर॒भि ष्या॑म् ॥१३॥
पा॒हि । नः॒ । अ॒ग्ने॒ । र॒क्षसः॑ । अजु॑ष्टात् । पा॒हि । धू॒र्तेः । अर॑रुषः । अ॒घ॒ऽयोः । त्वा । यु॒जा । पृ॒त॒ना॒ऽयून् । अ॒भि । स्या॒म् ॥
Mantra 14
सेद॒ग्निर॒ग्नीँरत्य॑स्त्व॒न्यान्यत्र॑ वा॒जी तन॑यो वी॒ळुपा॑णिः। स॒हस्र॑पाथा अ॒क्षरा॑ स॒मेति॑ ॥१४॥
सः । इत् । अ॒ग्निः । अ॒ग्नीन् । अति॑ । अ॒स्तु॒ । अ॒न्यान् । यत्र॑ । वा॒जी । तन॑यः । वी॒ळुऽपा॑णिः । स॒हस्र॑ऽपाथाः । अ॒क्षरा॑ । स॒म्ऽएति॑ ॥
Mantra 15
सेद॒ग्निर्यो व॑नुष्य॒तो नि॒पाति॑ समे॒द्धार॒मंह॑स उरु॒ष्यात्। सु॒जा॒तासः॒ परि॑ चरन्ति वी॒राः ॥१५॥
सः । इत् । अ॒ग्निः । यः । व॒नु॒ष्य॒तः । नि॒ऽपाति॑ । स॒म्ऽए॒द्धार॑म् । अंह॑सः । उ॒रु॒ष्यात् । सु॒ऽजा॒तासः॑ । परि॑ । च॒र॒न्ति॒ । वी॒राः ॥
Mantra 16
अ॒यं सो अ॒ग्निराहु॑तः पुरु॒त्रा यमीशा॑नः॒ समिदि॒न्धे ह॒विष्मा॑न्। परि॒ यमेत्य॑ध्व॒रेषु॒ होता॑ ॥१६॥
अ॒यम् । सः । अ॒ग्निः । आऽहु॑तः । पु॒रु॒ऽत्रा । यम् । ईशा॑नः । सम् । इत् । इ॒न्धे । ह॒विष्मा॑न् । परि॑ । यम् । एति॑ । अ॒ध्व॒रेषु॑ । होता॑ ॥
Mantra 17
त्वे अ॑ग्न आ॒हव॑नानि॒ भूरी॑शा॒नास॒ आ जु॑हुयाम॒ नित्या॑। उ॒भा कृ॒ण्वन्तो॑ वह॒तू मि॒येधे॑ ॥१७॥
त्वे इति॑ । अ॒ग्ने॒ । आ॒ऽहव॑नानि । भूरि॑ । ई॒शा॒नासः॑ । आ । जु॒हु॒या॒म॒ । नित्या॑ । उ॒भा । कृ॒ण्वन्तः॑ । व॒ह॒तू इति॑ । मि॒येधे॑ ॥
Mantra 18
इ॒मो अ॑ग्ने वी॒तत॑मानि ह॒व्याज॑स्रो वक्षि दे॒वता॑ति॒मच्छ॑। प्रति॑ न ईं सुर॒भीणि॑ व्यन्तु ॥१८॥
इ॒मो इति॑ । अ॒ग्ने॒ । वी॒तऽत॑मानि । ह॒व्या । अज॑स्रः । व॒क्षि॒ । दे॒वऽता॑तिम् । इच्छ॑ । प्रति॑ । नः॒ । ई॒म् । सु॒र॒भीणि॑ । व्य॒न्तु॒ ॥
Mantra 19
मा नो॑ अग्ने॒ऽवीर॑ते॒ परा॑ दा दु॒र्वास॒सेऽम॑तये॒ मा नो॑ अ॒स्यै। मा नः॑ क्षु॒धे मा र॒क्षस॑ ऋतावो॒ मा नो॒ दमे॒ मा वन॒ आ जु॑हूर्थाः ॥१९॥
मा । नः॒ । अ॒ग्ने॒ । अ॒वीर॑ते । परा॑ । दा । दुः॒ऽवास॑से । अम॑तये । मा । नः॒ । अ॒स्यै । मा । नः॒ । क्षु॒धे । मा । र॒क्षसे॑ । ऋ॒त॒ऽवः॒ । मा । नः॒ । दमे॑ । मा । वने॑ । आ । जु॒हू॒र्थाः॒ ॥
Mantra 20
नू मे॒ ब्रह्मा॑ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे॑व म॒घव॑द्भ्यः सुषूदः। रा॒तौ स्या॑मो॒भया॑स॒ आ ते॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥२०॥
नु । मे॒ । ब्रह्मा॑णि । अ॒ग्ने॒ । उत् । श॒शा॒धि॒ । त्वम् । दे॒व॒ । म॒घव॑त्ऽभ्यः । सु॒सू॒दः॒ । रा॒तौ । स्या॒म॒ । उ॒भया॑सः । आ । ते॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
Mantra 21
त्वम॑ग्ने सु॒हवो॑ र॒ण्वसं॑दृक्सुदी॒ती सू॑नो सहसो दिदीहि। मा त्वे सचा॒ तन॑ये॒ नित्य॒ आ ध॒ङ्मा वी॒रो अ॒स्मन्नर्यो॒ वि दा॑सीत् ॥२१॥
त्वम् । अ॒ग्ने॒ । सु॒ऽहवः॑ । र॒ण्वऽस॑न्दृक् । सु॒ऽदी॒ती । सू॒नो॒ इति॑ । स॒ह॒सः॒ । दि॒दी॒हि॒ । मा । त्वे इति॑ । सचा॑ । तन॑ये । नित्ये॑ । आ । ध॒क् । मा । वी॒रः । अ॒स्मत् । नर्यः॑ । वि । दा॒सी॒त् ॥
Mantra 22
मा नो॑ अग्ने दुर्भृ॒तये॒ सचै॒षु दे॒वेद्धे॑ष्व॒ग्निषु॒ प्र वो॑चः। मा ते॑ अ॒स्मान्दु॑र्म॒तयो॑ भृ॒माच्चि॑द्दे॒वस्य॑ सूनो सहसो नशन्त ॥२२॥
मा । नः॒ । अ॒ग्ने॒ । दुः॒ऽभृ॒तये॑ । सचा॑ । ए॒षु । दे॒वऽइ॑द्धेषु । अ॒ग्निषु॑ । प्र । वो॒चः॒ । मा । ते॒ । अ॒स्मान् । दुः॒ऽम॒तयः॑ । भृ॒मात् । चि॒त् । दे॒वस्य॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । न॒श॒न्त॒ ॥
Mantra 23
स मर्तो॑ अग्ने स्वनीक रे॒वानम॑र्त्ये॒ य आ॑जु॒होति॑ ह॒व्यम्। स दे॒वता॑ वसु॒वनिं॑ दधाति॒ यं सू॒रिर॒र्थी पृ॒च्छमा॑न॒ एति॑ ॥२३॥
सः । मर्तः॑ । अ॒ग्ने॒ । सु॒ऽअ॒नी॒क॒ । रे॒वान् । अम॑र्त्ये । यः । आ॒ऽजु॒होति॑ । ह॒व्यम् । सः । दे॒वता॑ । व॒सु॒ऽवनि॑म् । द॒धा॒ति॒ । यम् । सू॒रिः । अ॒र्थी । पृ॒च्छमा॑नः । एति॑ ॥
Mantra 24
म॒हो नो॑ अग्ने सुवि॒तस्य॑ वि॒द्वान्र॒यिं सू॒रिभ्य॒ आ व॑हा बृ॒हन्त॑म्। येन॑ व॒यं स॑हसाव॒न्मदे॒मावि॑क्षितास॒ आयु॑षा सु॒वीराः॑ ॥२४॥
म॒हः । नः॒ । अ॒ग्ने॒ । सु॒वि॒तस्य॑ । वि॒द्वान् । र॒यिम् । सू॒रिऽभ्यः॑ । आ । व॒ह॒ । बृ॒हन्त॑म् । येन॑ । व॒यम् । स॒ह॒सा॒ऽव॒न् । मदे॑म । अवि॑ऽक्षितासः । आयु॑षा । सु॒ऽवीराः॑ ॥
Mantra 25
नू मे॒ ब्रह्मा॑ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे॑व म॒घव॑द्भ्यः सुषूदः। रा॒तौ स्या॑मो॒भया॑स॒ आ ते॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥२५॥
नु । मे॒ । ब्रह्मा॑णि । अ॒ग्ने॒ । उत् । श॒शा॒धि॒ । त्वम् । दे॒व॒ । म॒घव॑त्ऽभ्यः । सु॒सू॒दः॒ । रा॒तौ । स्या॒म॒ । उ॒भया॑सः । आ । ते॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥